पा. २ सू. २७ ] एवास्यः मतिविभ्रमः ॥ २४ ॥ हेयं दुःखमुक्तम् । हेयकारणं च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्- तदभावात्संयोगाभावो हानं तदहशेः कैवल्यम् ॥ २५ ॥ तस्यादर्शनस्याभाबाद् बुद्धिपुरुषसंयोगाभाव आत्यन्तिको बन्धनो- परम इत्यर्थः । एतद् हानम् । तद्द्दशेः कैवल्यं, पुरुषस्यामिश्रीभावः पुनर- संयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोपरमो हानम् तदा स्वरूप- प्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥ अथ हानस्य कः प्राप्त्युपाय इति - पातञ्जलयोगसूत्रम् ८६ विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥ सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः, सा त्वनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दुग्धबीजभावं बन्ध्यप्रसवं संपद्यते तदा विधूत- क्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति । सा विवेकख्यातिरविप्लवा हानस्योपायः । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येप मोक्षस्य मार्गो हानस्योपाय इति ॥ ६ ॥ र तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥ प्राप्तं निरोधसमाधिभावनाप्रकर्षक्रमेण चित्तनिवृत्तिमत्पुरुषस्वरूपावस्थानोपयो- गीत्यातिष्ठामहे, तत्कथमुपालभ्येमहीति ॥ २४ ॥ । तदेवं व्यूहद्वयमुक्त्वा तृतीयव्यूहाभिधानाय सूत्रमवतारयति-हेयं दुःखमुक्त मिति । तदभावात्संयोगाभावो हानं तद्द्दशेः कैवल्यमिति । सूत्रं व्याचष्टे- तस्येति । अस्ति हि महाप्रलयेऽपि संयोगाभावोऽत उत्तमात्यन्तिक इति । दुःखोपरमो हानमिति पुरुषार्थता दर्शिता । शेषमतिरोहितम् ॥ २५ ॥ हानोपायलक्षणं चतुर्थं व्यूहमाख्यातुं सूत्रमवतारयति — अथेति । विवेक- ख्यातिरविप्लवा हानोपायः। आगमानुमानाभ्यामपि विवेकख्यातिरस्ति । न चासौ व्युत्थानं तत्संस्कारं वा निवर्तयति, तद्वतोऽपि तदनुवृत्तेरिति तन्निवृत्त्यर्थम- विप्लवेति । विप्लवो मिथ्याशानं तद्रहिता । एतदुक्तं भवति - श्रुतमयेन ज्ञानेन विवेकं गृहीत्वा युक्तिमयेन च व्यवस्थाप्य दीर्घकालनैरन्तर्यसत्कार| सेविताया भावनायाः प्रकर्षपर्यन्तं समधिगता साक्षात्कारवती विवेकख्यातिर्निवर्तितस- बासन मिथ्याज्ञाना निर्विप्लवा हानोपाय इति । शेषं भाष्यं सुगमम् ॥ २६ ॥ 1- विवेकख्यातिनिष्ठायाः स्वरूपमाह सूत्रेण तस्य सप्तधा प्रान्तभूमिः
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१९३
दिखावट