पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम् पा. २ सू. २२ ] ज्ञानवृत्तिरित्याख्यायते ।। २० ।। तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥ दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एव दृश्य- स्यात्मा स्वरूपं भवतीत्यर्थः । तत्स्वरूपं तु पररूपेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानादस्य नाशः प्राप्तः, न तु विनश्यति ।। २१ ।। कस्मात् ? कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥ कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुष- बुद्धिवृत्तिमनुपततीति । तदनेनानुपश्य इति व्याख्यातं, तामनुकारेण पश्यती- त्यनुपश्य इति ॥ २० ॥ द्रष्टदृश्ययोः स्वरूपमुक्त्वा स्वस्वामिलक्षणसम्बन्धाङ्गं दृश्यस्य द्रष्ट्रर्थत्वमाह- तदर्थ एव दृश्यस्यात्मेति । व्याचष्टे - हशिरूपस्य पुरुषस्य भोक्तः कर्मरूपतां भोग्यतामापन्नं दृश्यमिति, तस्मात्तदर्थ एव द्रष्ट्रर्थ एव दृश्यस्यात्मा भवति न तु दृश्यार्थः । ननु नात्मात्मार्थं इत्यत आह - स्त्ररूपं भवतीति । एत दुक्तं भवति — सुखदुःखात्मकं दृश्यं भोग्यम् । सुखदुःखे चानुकूलयितृप्रतिकूल- यितॄणी तत्त्वेन तदर्थे एव व्यवतिष्ठेते। विषया अपि हि शब्दादयस्तादात्म्यादेव चानुकूलयितारः प्रतिकूलयितारश्च । न चात्मैवैषामनुकूलनीयः प्रतिकूलनीयच, स्वात्मनि वृत्तिविरोधात् । अतः पारिशेष्याच्चितिशक्तिरेवानुकूलनीया प्रतिकूल- नीया च । तस्मात्तदर्थमेव दृश्यं न तु दृश्यार्थम् । अतश्च तदर्थ एव दृश्यस्यात्मा न दृश्यार्थ; यत्स्वरूपमस्य यावत्पुरुषार्थमनुवर्तते, निर्वर्तिते च पुरुषार्थे निवर्तते इत्याह – स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पररूपेणात्मरूपेण चैत- न्येन प्रतिलब्धात्मकमनुभूतस्वरूपं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्य- ते । भोगः सुखाद्याकारः शब्दाद्यनुभवः । अपवर्गः सत्त्वपुरुषान्यतानुभवः । तच्चैतदुभयमप्यजानतो जडाया बुद्धेः पुरुषच्छायापत्त्येति पुरुषस्यैव । तथा च पुरुषभोगापवर्गयोः कृतयोर्हृश्यस्य भोगापवर्गार्थता समाप्यत इति भोगापवर्गा- र्थतायां कृतायामित्युक्तम् । अत्रान्तरे चोदयति — स्वरूपहानादिति । परिहरति- न तु विनश्यतीति ॥ २१ ॥ नन्वत्यन्तानुपलभ्यं कथं न विनश्यतीत्याशयवान्पृच्छति-कस्मादिति । सूत्रेणोत्तरमाह- कृतार्थं प्रति नष्टमप्यनष्टं तद्न्यसाधारणत्वात् । कृतोऽर्थो यस्य पुरुषस्य स तथा । तं प्रति नष्टमप्यनष्टं तदुद्दृश्यम् । कुतः १ सर्वान् पुरुषान्कुशला-