वाचस्पतिकृतटीकायुतव्यास मान्य समेतम् [पा. २ सू. २३ साधारणत्वात् । कुशलं पुरुष प्रति नाशं प्राप्तसण्यकुशलान्पुरुषान्प्रति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभत एव पररूपेणात्मरूपमिति । अतःच हग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम्-धर्मिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते -- ८१ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः। तस्मात्संयोगाद् दृश्यस्योप- नकुशलान्प्रति साधारणत्वात् । व्याचष्टे - कृतार्थमेकसिति | नाशोऽदर्शनम् । अनष्टं तु दृश्यम् , अन्यपुरुषसाधारणत्वात् । तस्माद्हयात्परस्यात्मनश्चैतन्यं रूपं तेन, तदिह श्रुतिस्मृतीतिहास पुराणप्रसिद्ध भव्यक्तमनवयवमेकमनाश्रयं व्यापि नित्यं विश्वकार्यशक्तिमत् । यद्यपि कुशलेन तं प्रति कृतकार्य न दृश्यते तथाप्यकुशलेन दृश्यमानं न नास्ति । न हि रूपमन्धेन न दृश्यत इति चक्षुष्मतापि दृश्यमा- नमभावप्राप्तं भवति । न च प्रधानवदेक एव पुरुषः, तन्नानात्वस्य जन्ममरण- सुखदुःखोपभोगमुक्तिसंसारव्यवस्थया सिद्धेः । एकत्वश्रुतीनां च प्रमाणान्तरवि- रोधात्कथञ्चिद्देशकालविभागाभावेन भक्तयाप्युपपत्तेः । प्रकृत्येकत्वपुरुषनाना- त्वयोश्च श्रुत्यैव साक्षात्प्रतिपादनात् । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमाना सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ (श्वे० उप०४/५ ) इति श्रुतिः । अस्या एव श्रुतेश्चानेन सूत्रेणार्थोऽनूदित इति । यतो दृश्यं नष्टमप्यनष्टं पुरुषान्तरं प्रत्यस्ति, अतो दृग्दर्शनशक्तयोर्नित्यत्वादनादिः संयोगो व्याख्यातः । 'अत्रैवागमिनामनुमतिमाह- इ-तथा चोक्तमिति । धर्मिणां गुणानामात्मभिरनादि- संयोगाद्धर्ममात्राणां महदादीनामप्यनादिः संयोग इति । एकैकस्य महदादेः संयोगोऽनादिरप्यनित्य एव यद्यपि तथापि सर्वेषां महदादीनां नित्यः, पुरुषा- न्तराणां साधारणत्वाद् अत उक्तं धर्ममात्राणामिति । मात्रग्रहणेन व्यासि गमयति । अत एतद्भवति- यद्यप्येकस्य महतः संयोगोऽतीततामापन्नस्तथापि महदन्तरस्य पुरुषाणां संयोगो नातीत इति नित्य उक्तः ॥ २२ ॥ , तदेवं तादर्थ्ये संयोगकारण उक्त प्रासङ्गिके प्रधाननित्यत्वे संयोगसामान्य- नित्यत्वे हेतौ चोक्के संयोगस्य यत्स्वरूपमसाधारणो विशेष इति यावत्तदभि- धित्सयेदं सूत्रं प्रववृते–स्वस्वामिशक्त्योः सरूपोपलब्धिहेतुः संयोग इति । यतो दृश्यं तदर्थमतस्तजनितमुपकारं भजमानः पुरुषस्तस्य स्वामी भवति । भवति च तद् दृश्यमस्य स्वम् । स चानयोः संयोगः शक्तिमात्रेण व्यवस्थितस्तत्स्व- ६ यो० सू०
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८८
दिखावट