७९ [ [ पा. २ सू. २० वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् न हि बुद्धिश्च नाम पुरुषविषयश्च स्याद् गृहीता ऽगृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं ततश्चापरिणामित्वमिति । किं च परार्था बुद्धिः संहत्यकारित्यात्, स्वार्थः पुरुष इति । तथा सर्वार्थाध्यवसायकत्वात्त्रिगुणा बुद्धिस्त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इति । अतो न सरूपः । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात् ? शुद्धोऽप्यसौ प्रत्ययानुपश्यः यतः प्रत्ययं बौद्धमनुपश्यति । तमनुपश्यन्नतदात्मापि तदा- त्मक इव प्रत्यवभासते । तथा चोक्तम्-- अपरिणामिनी हि भोक्तृशक्तिर- प्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतति तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हिं दिति । उत्तरम् – न हि बुद्धिश्च नामेति । बुद्धयग्रहणयोरस्ति सह संभवो निरोधावस्थायामत उक्तं विरोधसूचनाय पुरुषविषयश्चेति । तेनाद्यश्चकारोबुद्धिं विषयत्वेन समुच्चिनोति । परिशिष्टौ तु विरोधद्योतकौ चकाराविति । प्रयोगस्तु पुरुषोऽपरिणामी सदा संप्रज्ञातव्युत्थानावस्थयोर्ज्ञातविषयत्वात् । यस्तु परिणामी नासौ सदा ज्ञातविषयो भवति यथा श्रोत्रादिरिति व्यतिरेकी हेतुः । अपरमपि वैधर्म्यमाह - किं च परार्थेति । बुद्धिः खलु क्लेशकर्मवासनादिभिर्विषयेन्द्रिया- दिभिश्च संहत्य पुरुषार्थमभिनिर्वर्तयन्ती परार्था । प्रयोगश्च-परार्था बुद्धिः संहत्यकारित्वाच्छयनासनाभ्यङ्गवदिति । पुरुषस्तु न तथेत्याह–स्वार्थः पुरुष इति । सर्वं पुरुषाय कल्पते । पुरुषस्तु न कस्मैचिदित्यर्थः । वैधर्म्यान्तरमाइ- तथा सर्वाथेति । सर्वानर्थाञ्छान्तघोरमूढांस्तदाकारपरिणता बुद्धिरध्यवस्यति सत्त्वरजस्तमसां चैते परिणामा इति सिद्धा त्रिगुणा बुद्धिरिति । न चैवं पुरुष इत्याह-गुणानां तूपद्रष्टा पुरुष इति । तत्प्रतिबिम्बितः पश्यति न तु तदाकार- परिणत इत्यर्थः । उपसंहरति -अत इति । अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः कस्माद्यतः शुद्धोऽपि प्रत्ययानुपश्यः । यथा चैतत्तथोक्तं "वृत्तिसारूप्यमितरत्र" ( ११४ ) इत्यत्र । तथा चोक्तं पश्चशिखेन-अपरिणामिनी हि भोक्तृशक्तिरात्मा । अत ● एव बुद्धावप्रतिसंक्रमा च परिणामिनि बुद्धिरूपेऽर्थे संक्रान्तेव तद्वृत्तिं बुद्धिवृत्तिमनुपतति । नन्वसंक्रान्ता कथं संक्रान्तेव कथं वा वृत्ति विनानु- पततीत्यत आह—तस्याश्चेति । प्राप्तश्चैतन्योपग्रह उपरागो येन रूपेण तत्तथा प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता । एतदुक्तं भवति – यथा निर्मले जलेऽसंक्रान्तोऽपि चन्द्रमाः संक्रान्तप्रतिबिम्बतया संक्रान्त इव, एवमत्राप्यसङ्- क्रान्ताऽपि सङ्क्रान्तप्रतिबिम्बा चितिशक्तिः सङ्क्रान्तेव, तेन बुद्ध यात्मत्वमापन्ना
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८६
दिखावट