पा. २सू. २०] पातञ्जलयोगसूत्रम् तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते, तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं तत्त्त्रान्तरमस्तीति विशेषाणां नास्ति तन्त्रान्तर- परिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १९ ॥ व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते- ७८ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥ दृशिमात्र इति दृक्शक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न तावत्सरूपः । कस्मात् ? ज्ञाताज्ञातविषयत्वात्परिणामिनी हि बुद्धिः, तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातच ज्ञातश्चेति परिणामित्वं दर्शयति । सदा ज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात् ? पत्रकाण्डनालादिक्रमेण । एवमिहापि युक्त यागमसिद्धः क्रम आस्थेय इति । कथं भूतेन्द्रियाण्यविशेषसंसृष्टानीत्यत आह -तथा चोक्तं पुरस्तादिति । इदमेव सुत्रं प्रथमं व्याचक्षाणैः । अथ विशेषाणां कस्मान्न तत्त्वान्तरपरिणाम उक्त इत्यत आह—न विशेषेभ्य इति । तत्किमिदानीमपरिणामिन एव विशेषाः, तथा च नित्याः प्रसज्येरन्नित्यत आह - तेषां त्विति ॥ ११ ॥ व्याख्यातं दृश्यम् । द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते - द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः । व्याचष्टे - हशिमात्र इति । विशेषणानि धर्मास्तैर- परामृष्टा । तदनेन मात्रग्रहणस्य तात्पर्य दर्शितम् । स्यादेतत् – यदि सर्व- विशेषणरहिता दृक्शक्तिर्न तर्हि शब्दादयो दृश्येरन् । न हि हशिनाऽसंस्पृष्टं दृश्यं भवतीत्यत आह–स पुरुष इति । बुद्धिदर्पणे पुरुषप्रतिबिम्बसंक्रान्तिरेव बुद्धिप्रतिसंवेदित्वं पुंसः । तथा च दृशिच्छायापन्नया बुद्धया संसृष्टाः शब्दादयो भवन्ति दृश्या इत्यर्थः । स्यादेतत्-पारमार्थिकमेव बुद्धिचैतन्ययोः कस्मादैक्यं नोपेयते, किमनया तच्छायापत्त्येत्यत आह–स बुद्धेर्न सरूप इति । तदाऽसरू- पस्य तच्छायापत्तिरपि दुर्घटेत्यत आह - नात्यन्तं विरूप इति । तत्र सारूप्यं निषेधति – न तावदिति । हेतुं पृच्छति-कस्मादिति । सहेतुकं वैरूप्ये हेतुमाह- ज्ञातेति । परिणामिनी बुद्धिर्यस्मात्तस्माद्विरूपा । यदा खल्वियं शब्दाद्याकारा भवति तदा ज्ञातोऽस्थाः शब्दादिलक्षणो भवति विषयः । तदनाकारत्वे त्वज्ञातः । तथा च कदाचिदेव तदाकारतां दधती परिणामिनीति । प्रयोगश्च भवति- बुद्धिः परिणामिनी ज्ञाताज्ञात विषयत्वाच्छ्रोत्रादिवदिति । तद्वैधर्म्य पुरुषस्य तद्विपरीताद्धेतोः सिध्यतीत्याह–सदेति । स्यादेतत्- सदा शातविषयश्चेत्पुरुषो न तर्हि केवली स्यादित्याशयवान्पृच्छति–कस्मा-
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८५
दिखावट