पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृत टीकायुतम्यासभाष्यसमेतम् [ पा. २ सू. १९ तत्प्रतियन्ति । एष तेषां लिङ्गमात्रः परिणामो निःसत्तासत्तं चालिङ्ग- परिणाम इति । अलिङ्गावस्थायां न पुरुषार्थो हेतुः । नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति न तस्याः पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्याख्यायते। त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याख्यायते । गुणास्तु सर्वधर्मानु- पातिंनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवाती तानागतव्ययागमव- तीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात् ? यतोऽस्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्रता न स्वरूपहानादिति समः समाधिः । लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं तत्र तत्संसृष्टं विविच्यते, क्रमानतिवृत्तेः । तथा पडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते, परिणामक्रम नियमात् । कारणावस्थायां सदेव शक्तयात्मना कार्यं तथापि स्वोचितामर्थक्रियामकुर्वद् असदित्युक्तम् । न चैतत्कारणं शशविषाणायमानकार्यमित्याह - निरसदिति । निष्क्रान्तमसतस्तुच्छरूपात्कार्यात् । तथा हि सति व्योमारविन्दमिवास्मान्न कार्यमुत्पद्येतेति भावः । प्रतिसर्गमुक्तमुपसंहरति - एव तेषामिति । एष इत्यन- न्तरोक्कात्पूर्वस्य परामर्शः । लिङ्गमात्राद्यवस्थाः पुरुषार्थंकृतत्वादनित्या, अलिङ्गावस्था तु पुरुषार्थेना- कृतत्वान्नित्येत्यत्र हेतुमाह - अलिङ्गावस्थायामिति । कस्मात्पुनर्न पुरुषार्थो हेतुरित्यत आह–नालिङ्गावस्थायामिति । भवतिना विषयेण विषविज्ञान- मुपलक्ष्यति । एतदुक्तं भवति - एवं हि पुरुषार्थता कारणमलिङ्गावस्थायां ज्ञायेत । यद्यलिङ्गावस्था शब्दाद्युपभोगं वा सत्त्वपुरुषान्यताख्याति वा पुरुषार्थ निर्वर्तयेत्तन्निवर्तने दिन साम्यावस्था स्यात् । तस्मात्पुरुषार्थकारणत्वमस्यां न शायत इति नास्याः पुरुषार्थताहेतुः । उपसंहरति नासाविति । इतिस्तस्मादर्थे । अनित्यामवस्थामाह—त्रयाणां लिङ्गमात्राविशेषविशेषाणामित्यर्थः । पर्वस्वरूपं दर्शयित्वा गुणस्वरूपमाह-गुणास्त्विति । निदर्शनमाह- इ—यथा देवदत्त- इति । यत्रात्यन्तभिन्नानां गवामुपचयापचयौ देवदत्तोपचयापचयहेतू तत्र कैव कथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनामुपजनापाययोरित्यर्थः । ननु सर्गक्रमः किमनियतो नेत्याह – लिङ्गमात्रमिति । न खलु न्यग्रोध- धाना अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्ड निपीतमार्तण्ड- चण्डातपमण्डलमारभन्ते किं तु क्षितिसलिलतेजःसंपर्कात्परम्परोपजायमानाङ्कुर