पी. २सू. १९ ] पीतञ्जलयोगसूत्रम् ७६ इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः । गुणानामेष षोडशको विशेष- परिणामः । षडविशेषाः । तद्यथा-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेत्येकद्वित्रिचतुष्पञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः, षष्ठ्या- विशेषोऽस्मितामात्र इति । एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः । यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्रं तस्मिन्नते सत्तामात्रे महत्यात्मन्य- वस्था विवृद्धिकाष्ठमनुभवन्ति, प्रतिसंसृज्यमानाञ्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निः सत्तासत्तं निःसद्सन्निरसदव्यक्तमलिङ्ग प्रधानं वदिति । विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशिष्टम् । सँकलय्य विशेषान्परिगणयति-गुणानामेष इति । अविशेषानपि गणयति-पडिति । संकलय्योदाहरति--तद्यथेति । विशिष्टं ह्यपरं परेणेति गन्ध आत्मना पञ्चलक्षणो, रस आत्मना चतुर्लक्षणो रूपमात्मना त्रिलक्षणं, स्पर्श आत्मना द्विलक्षणः, शब्दः शब्दलक्षण एवेति । कस्य पुनरमी षडविशेषाः कार्यमित्यत आह - एते सत्तामात्रस्यात्मन इति । पुरुपार्थक्रिया- क्षमं सत् । तस्य भावः सत्ता | तन्मात्रं तन्महत्तत्त्वम् । यावती काचित्पुरुषार्थक्रिया शब्दादिभोगलक्षणा सत्त्वपुरुषान्यताख्यातिलक्षणा वास्ति सा सर्वा महति बुद्धौ समाप्यत इत्यर्थः । आत्मन इति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेरयमाद्यः परिणामो वास्तवो न तु तद्विवर्त इति यावत् । यत्तत्परं विप्रकृष्ट- कालमविशेषेभ्यस्तदपेक्षया संनिकृष्टकालेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नते षडविशेषाः सत्तामात्रे महत्यात्मन्यवस्थाय सत्कार्यसिद्धेविंवृद्धिकाष्ठाम- नुभवन्ति प्राप्नुवन्ति । ये पुनरविशेषाणां विशेषपरिणामास्तेषां च धर्म- लक्षणावस्थाः परिणामा इति, सेयमेषां विवृद्धिकाष्ठा परिणामकाष्ठेति । तदेवमुत्पत्तिक्रममभिधाय प्रलयक्रममाइ- प्रतिसंसृज्यमानाः प्रलीयमानाः स्वात्मनि लीनविशेषा अविशेषास्तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तमन्यत्र लयं न गच्छतीत्यलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्तासत्तम् इति । सत्ता पुरुषार्थक्रियाक्ष मत्वम् । असत्ता तुच्छता / निष्क्रान्तं सत्ताया असत्तायाश्च यत्तत्तथोक्तम् । एतदुक्तं भवति -- सत्त्वरजस्तमसां साम्यावस्था न क्वचिरपुरुषार्थ उपयुज्यत इति न सती । नापि गगनकमलिनीव तुच्छस्वभावा । तेन नासत्यपीति । स्यादेतत् – अव्यक्तावस्था- यामप्यस्ति महदादि तदात्मना । न हि सतो विनाशो, विनाशे वा न पुनरुत्पादो, न हासत उत्पाद इति महदादिसद्भावात्पुरुषार्थक्रिया प्रवर्तेत । तत्कथं निःसत्त्व- मव्यक्तमित्यत आह - निःसदसदिति । निष्कान्तं कारणं सतः कार्यात् । यद्यपि
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८३
दिखावट