पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतण्यांसभाष्यसमेतम् [पा. २ सू. १८ इति । द्वयोरतिरिक्तमन्यदर्शनं नास्ति । तथा चोक्तम्-अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्य जातीये चतुर्थे तत्क्रियासाक्षिण्यु- पनीयमानान्सर्वभावानुपपन्नाननुपश्यन् नदर्शनमन्यच्छङ्कत इति । तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति । यथा च जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति । एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यप- दिश्येते स हि तत्फलस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्त- दर्थावसायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः स हि तत्फलस्य भोक्तेति ।। १८ ।। दृश्यानां तु गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते- विशेषाविशेष लिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९ ॥ तत्राकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणा- मविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि । बाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि । एकादशं मनः सर्वार्थम्, वेचितम् । अपवर्गं विवृणोति - भोक्तुरिति । अपवृज्यतेऽनेनेत्यपवर्गः । प्रयोजनान्तरस्याभावमाह-द्वयोरिति । तथा चोक्तं पञ्चशिखेन–अयं तु खल्विति । ननु वस्तुतो भोगापवर्गों बुद्धिकृतौ बुद्धिवर्तिनौ च । कथं तदाकारणे तदन- धिकरणे च पुरुषे व्यपदिश्येते इत्यत आह—तावेताविति । भोक्तृत्वं च पुरुषस्योपपादितम् (१।४ टीका ), अग्रे च ( ३ | ३५) वक्ष्यते । परमार्थतस्तु- बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्ध इति । एतेन भोगापवर्गयोः पुरुषसंबन्धि- त्वकथनमार्गण ग्रहणादयोऽपि पुरुषसंबन्धिनो वेदितव्याः । तत्र स्वरूपमात्रे- णार्थज्ञानं ग्रहणम् । तत्र स्मृतिर्धारणम् । तद्गतानां विशेषाणामूहनमूहः । समारोपितानां च युक्त्यापनयोऽपोहः । ताभ्यामेवोहापोहाभ्यां तदवधारणं तत्त्वज्ञानम् । तत्त्वावधारणपूर्व हानीपादानज्ञानमभिनिवेशः ॥ १८ ॥ ७५ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते-विशेषाविशेषलिङ्ग- मात्रालिङ्गानि गुणपर्वाणि । येषामविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा विकारा एव न तु तत्त्वान्तरप्रकृतयस्तेषां तानाह-तत्राकाशेति । उत्पादक्रमानुरूप एवोपन्यासक्रमः । अस्मितालक्षणस्याविशेषस्य सत्त्व प्रधानस्य बुद्धीन्द्रियाणि विशेषाः । राजसस्य कर्मेन्द्रियाणि । मनस्तुभयात्मकमुभयप्रधान- स्येति मन्तव्यम् । अत्र च पञ्च तन्मात्राणि बुद्धिकारणकान्यविशेषत्वादस्मिता- -