वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. १ सू. १३ सपरिहारः सप्रत्यवमर्षः, कुशलस्य नापकर्षायालम्, कस्मात् ? कुशलं हि मे बह्वन्यदस्ति यत्रायमावापं गतः स्वर्गेऽप्यपकर्षमल्पं करिष्यति” इति । नियतविपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानम् । कथमिति ? अदृष्टजन्मवेदनीयस्य नियतविपाकस्यैव कर्मणः समानं मरणमभिव्यक्ति- कारणमुक्तम्, न त्वदृष्टजन्मवेदनीयस्यानियतविपाकस्य । यत्त्वदृष्टजन्म- वेदनीयं कर्मानियतविपाकं तन्नश्येदावापं वा गच्छेदभिभूतं वा चिरमप्यु- पासीत, यावत्समानं कर्माभिव्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाकस्यैव देशकालनिमित्तानवधारणादियं कर्मगतिर्विचित्रा दुर्विज्ञाना चेति । न चोत्सर्गस्यापवादा न्निवृत्तिरित्येकभविकः कर्माशयोs नुज्ञायत इति ॥ १३ ॥ देरावापगमनम् । द्वे खलु हिंसादेः कार्ये-प्रधानाङ्गत्वेन विधानात्तदुपकारः,“न हिंस्यात्सर्वा भूतानि" ( तुल० शान्ति० २७८१५) इति हिंसायाः प्रतिषिद्धत्वाद- नर्थश्च । तत्र प्रधानाङ्गत्वेनानुष्ठानादप्रधान तैवेत्यतो न द्रागित्येव प्रधाननिरपेक्षा सती स्वफलमनर्थं प्रसोतुमर्हति, कि त्वारब्धविपाके प्रधाने साहायकमाचरन्ती व्यवतिष्ठते । प्रधानसाहायकमाचरन्त्याश्च स्वकार्ये बीजमात्रतयावस्थानं प्रधाने कर्मण्यावापगमनम् । यत्रेदमुक्तं पञ्चशिखेन-“स्वल्पः संकरो ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनानथं हेतुनाऽपूर्वेण सपरिहारः। शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम् । अथ प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्म विपाक- समये च विपच्येत तथापि यावन्तमसावनथं प्रसूते तावान्सप्रत्यवमर्षः । मृष्यन्ते हि पुण्यसंभारोपनीतसुखसुधामहाहदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम् । अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः। पृच्छति-कस्मादिति । उत्तरं - कुशलमिति । कुशलं हि मे पुण्यवतो बह्वन्यदस्ति । प्रधानकर्म विपाकतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तम् । यत्रायं संकरः स्वल्पः स्वर्गेऽप्यस्य फले संकीर्णपुण्यलब्धजन्मनः स्वर्गात्सर्वथा दुःखेनापरामृष्टादपकर्ष मल्पमल्दुःखसंमेदं करिष्यतीति । तृतीयां गतिं विभजते- नियतेति । बलीयस्त्वेनेह प्राधान्यमभिमतं न त्वङ्गितया । बलीयस्त्वं च नियतविपाकत्वेनान्यदानवकाशत्वात् । अनियत- विपाकस्य तु दुर्बलत्वमन्यदा सावकाशत्वात् । चिरमवस्थानं बीजभावमात्रेण। न पुनः प्रधानोपकारितया, तस्य स्वतन्त्रत्वात् । ननु प्रायणे नैकदैव कर्माशयो- ऽभिव्यज्यत इत्युक्तम् । इदानीं च चिरावस्थानमुच्यते । तत्कथं परं पूर्वेण न विरुध्यत इत्याशयवान्पृच्छति-कथमिति । उत्तरम् अदृष्ट इति । जात्यभिप्राय- मेकवचनम् । तदितरस्य गतिमुक्कामवधारयति-यत्त्वदृष्टेति । शेषं सुगमम् ॥ १३ ॥ ५. यो० सू०
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७२
दिखावट