पातञ्जलयोगसूत्रम् तेह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥ ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला, अपुण्यहेतुका दुःखफला इति । यथा चेदं दुःखं प्रतिकूलात्मकमेवं विषयसुखकालेऽपि दुःखमस्त्येव प्रति- कूलात्मकं योगिनः ॥ १४ ।। कथं तदुपपद्यते- पा. २ सू. १५ ] परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ १५ ॥ सर्वस्यायं रागानुविद्धश्चेतनाचेतनसाधनाधीनः सुखानुभव इति तत्रास्ति रागजः कर्माशयः । तथा च द्वेष्टि दुःखसाधनानि मुह्यति चेति उक्तं क्लेशमूलत्वं कर्मणाम्। कर्ममूलत्वं च विपाकानाम् । अथ विपाकाः कस्य मूलं येनामी त्यक्तव्या इत्यत आह—ते ह्लादपरितापफलाः पुण्यापुण्यहे- तुत्वाद् इति । सूत्रं व्याचष्टे - ते जन्मायुभेगा इति । यद्यपि जन्मायुषोरेव ह्लाद- परितापपूर्वभावितया तत्फलत्वं न तु भोगस्य ह्लादपरितापोदयान्तरभाविनस्त- दनुभवात्मनस्तथाप्यनुभाव्यतया भोग्यतया भोगकर्मतामात्रेण भोगफलत्वमिति मन्तव्यम् । नन्वपुण्यहेतुका जात्यायुर्भोंगाः परितापफला भवन्तु हेयाः प्रति- कूलवेदनीयत्वात् । कस्मात्पुनः पुण्यहेतवस्त्यज्यन्ते सुखफला अनुकूलवेदनी- यत्वात् । न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्यनुमानागमैरपाक- र्तुम्| न च ह्लादपरितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने परितापो- ऽप्यवर्जनीयतयाऽपतेत् । तयोर्भिन्नहेतुकत्वाद्भिन्नरूपत्वाच्चेत्यत आह – यथा चेदमिति ॥ १४ ॥ • यद्यपि न पृथग्जनैः प्रतिकूलात्मतया विषयसुखकाले संवेद्यते दुःखं तथापि तत् संवेद्यते योगिभिरिति प्रश्नपूर्वकं तदुपपादनाय सूत्रमवतारयति-कथं तदुप- पद्यत इति । परिणामेत्यादि सूत्रम् । परिणामश्च तापश्च संस्कारश्चैतान्येव दुःखानि तैरिति । परिणामदुःखतया विषयसुखस्य दुःखतामाह - सर्वस्याय- मिति । न खलु सुखं रागानुवेधमन्तरेण संभवति । न ह्यस्ति संभवो न तत्र तुष्यति तच्च तस्य सुखमिति | रागस्य च प्रवृत्तिहेतुत्वात्प्रवृत्तेश्च पुण्यापुण्योप- चयकारित्वात्तत्रास्ति रागजः कर्माशयोऽसतोऽनुपजननात् । सुखं भुञ्जानस्तत्र सक्तोऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःखसाधनानि । तानि परिहर्तुमशक्तो मुह्यति चेति द्वोपमोहकृतोऽप्यस्ति कर्माशयः । द्वेष- वन्मोहस्यापि विपर्ययापरनाम्नः कर्माशयहेतुत्वमविरुद्धम् । ननु कथं रक्तोद्वेष्टि तथा च
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७३
दिखावट