सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. २ सू. १३ ] पातञ्जलयोगसूत्रम् ६४ यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च । तत्र दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियमो न त्वदृष्टजन्मवेदनीय- स्यानियतविपाकस्य । कस्मात् ? यो ह्यदृटजन्मवेदनीयोऽनियतविपाकस्तस्य त्रयी गतिः- कृतस्याविपक्कस्य विनाशः, प्रधानकर्मण्यावापगमनं वा, नियत- विपाकप्रधानकर्मणाभिभूतस्य वा चिरमवस्थानमिति । तत्र कृतस्याविपक्वस्य नाशो यथा शुक्लकर्मोदयादिहैव नाशः कृष्णस्य । यत्रेदमुक्तम् -- "द्वद्वळेह वै कर्मणी वेदितव्ये पापकस्यैको राशिः पुण्यकृतोऽ- पहन्ति । तदिच्छस्व कर्माणि सुकृतानि कर्तुमिहैव ते कर्म कवयो वेदयन्ते ।” प्रधानकर्मण्यात्रापगमनम् । यत्रेदमुक्तं——“स्यात्स्वल्पः संकरः तमेकलोलीभावमापन्नम् । धर्माधर्माभ्यां व्यवच्छेत्तुं वासनायाः स्वरूपमाह- ये संस्कारा इति । और्सागकमेकभविकत्वं क्वचिदपवदितुं भूमिकामारचयति-यस्त्वसावि- ति । तुशब्देन वासनातो व्यवच्छिनत्ति । दृष्टजन्मवेदनीयस्य नियतविपाकस्यै- वायमेकभविकत्वनियमो न त्वदृष्टजन्मवेदनीयस्य । किंभूतस्यानियतविपाक- स्येति । हेतुं पृच्छति–कस्मादिति । हेतुमाह-यो हीति । एकां तावद्ग- तिमाह — कृतस्येति । द्वितीयामाह - प्रधानेति । तृतीयामाह-नियतेति । तत्र प्रथमां विभजते – तत्र कृतस्येति । संन्यासिकर्मभ्योऽशुक्लाकृष्णेभ्योऽ- न्यानि त्रीण्येव कर्माणि कृष्णकृष्णशुक्लशुक्लानि । तदिह तपःस्वाध्यायादिसाध्यः शुक्ल: कर्माशय उदित एवादत्तफलस्य कृष्णस्य नाशकोऽविशेषाञ्च शबलस्थापि कृष्णभागयोगादिति मन्तव्यम् । अत्रैव भगवानाम्नायमुदाहरति -- यत्रेदमिति । द्वे द्वे ह वै कर्मणी कृष्णकृष्णशुक्ले अपहन्तीति संबन्धः । वीप्सया भूयिष्ठता सूचिता । कस्येत्यत आह-पापकस्येति पापकस्य पुंस इत्यर्थः । कोऽसावपहन्तीत्यत आह एको राशिः पुण्यकृतः इति । समूहस्य समूहिसाध्यत्वात् । तदनेन शुक्लः कर्मा- शयस्तृतीय उक्तः । एतदुक्तं भवति-ईदृशो नामायं परिपीडादिरहितसाधनसा- घ्यः शुक्लः कर्माशयो यदेकोऽपि सन्कृष्णान्कृष्णशुक्लांश्चात्यविरोधिनः कर्माश- यान्भूयसोऽप्यपहन्ति । तत्तस्मादिच्छस्वेति छान्दसत्वादात्मनेपदम् । शेषं सुगमम् । अत्र च शुक्लकमोंदयस्यैव स कोऽपि महिमा यत इतरेषामभावो न तु स्वाध्यायादिजन्मनो दुःखात् । न हि दुःखमात्रविरोध्यधर्मोऽपि तु स्वकार्य- दुःखविरोधी । न च स्वाध्यायादिजन्यं दुःखं तस्य कार्यम्, तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात्तद्वलादेव तदुत्पत्तेः । अनुत्पत्तौ वा कुम्भीपाकाद्यपि विधीयेत । अविधाने च तदनुत्पत्तेरिति सर्वं चतुरस्रम् । द्वितीयां गति विभजते-प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसा-