सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गताः सर्वे विशेषाः शब्दानुमानाभ्यां ज्ञातुं शक्यन्त इत्यतः भूतादीनां प्रत्यक्षी- करणमावश्यकम्, प्रत्यक्षत उपलब्धेऽर्थे जिज्ञासा निवर्तते, इति च न्यायानुसा- रिणी दृष्टिः । तथाहि – योगसूत्रे समानोदानजयहेतुकानि फलानि प्रोक्तानि ( ३ । ३६-४० ) प्राणव्यानापानजयहेतुकानि च नोक्तानि । युक्तया चानुक्तानां फलानां सामान्यज्ञानं भवत्येव, अभ्यासेन च कृत्स्नं ज्ञानं स्यादित्यस्माकं मतम् । योगसूत्रादयः खलु अनुशासनग्रन्थाः, नैतेषु सर्वमर्थजातं विवृतमित्यतः प्रयोगतो न्यायतश्चेयं विद्याऽभ्यसनीया, न शब्दमात्रतः । भूतादीनां तत्त्वानां प्राणायामा- दीनामभ्यासानां च शास्त्रेष्वनुक्तं बहु वैशिष्ट्यं योगाभ्यासिभिर्ज्ञायत एव । सांख्ययोगविद्याप्रवर्तनम् - अत्रे दं विज्ञेयम्——ग्राह्य-ग्रहण-ग्रहीतृभेदेन त्रिधावर्त्तमानानां पदार्थानां योगबलेन साक्षात्कारे कृते सति सर्वदुःखानामे- कान्तात्यन्ततो नाशः संभवति, यतो हि निरोधकाले एव ज्ञः पुरुषः दुःखाधारभूत- बुद्धितः पृथग् भवति, स्वरूपेणावतिष्ठते; स्वरूपज्योतिरमलः केवली भवति । स च निरोधस्तत्त्वज्ञानमन्तरा न शाश्वतिको भवति — इति नान्तरीयकं खलु योगस्य सांख्यम् । वैकल्पिकमवास्तवं तत्त्वज्ञानं न खलु वास्तवदुःख- नाशायालम्, अतः सांख्ययोगविद्याप्रमेयाः साक्षात्कारयोग्याः सद्भूतपदार्थाः स्थूलसूक्ष्मकारणद्रव्यगताः । केवलया मेधया श्रुतेन तर्केण च योगमन्तरेण नैषामधिगमः कर्तुं शक्यते । समाधिचितिशक्त्यादयः पदार्था अलौकिकाः, अतस्तेषां ज्ञानं न लौकिकप्रत्यक्षाधीनम्, प्रत्युत चित्तस्थैर्य विशेषाधीनम् । 'इतरथान्धपरम्परेति' (सांख्यसूत्र ३८१) न्यायेनेह महदादीनामादिम उपदेष्टा साक्षात्का रिप्रज्ञासम्पन्न इत्यभ्युपेयम् । अलौकिकपदार्थविवरणपरत्वा- दियमध्यात्मविद्या मुक्तचित्तेनैव उपदेशनीया | मुक्तचित्तपरम्पराऽपि अनादिः, सर्वकाले एव मुक्तिश्रवणात् । अतो मोक्षसाधनभूताऽध्यात्मविद्या अनादिकालतः प्रवृत्तेति योगिनां दृष्टिः शास्त्रानुसारिणी । सेयं दृष्टियेनापि प्रमाणयितुं शक्यते, तद् यथा—“वस्तूनां जातिरनादिः, मूलकारणानां नित्यत्वात् तस्माद् बद्धजातीयकं तथा च मुक्तजातीयकं चित्तमनादि, ततश्च मुक्तचित्तयोग्यां मोक्ष- विद्याऽपि अनादिरिति” ( द्र० भास्वती १ | २४ ) | मुक्तचित्तपदेन सर्गादि- जन्मा हिरण्यगर्भोऽपि गृह्यते, तदभिध्यानपरायणेषु सर्गादिकालभवेषु मुनिषु तत एव तत्त्वज्ञानलाभदर्शनात् । एवं सत्यपि अस्मिन् सर्गे सा विद्या उत्सर्गापवादरीत्या मनुजहितार्थम् आन्वीक्षिकीमार्गेण च ससाधना कपिलेनादौ प्रोक्तेति अनपलाप्यमिति- सर्वतः वृत्तम् । तेनैव भगवता पूर्वप्रचलितमात्मज्ञानमुपपत्तिभिः प्रोक्तम्, प्रथमम् । अत एवेदं सम्यग्दर्शन मिति कृत्वा सांख्यमित्यभिहितमासीद् ऋऋषि-