महत्तत्त्वमभिलक्ष्य 'अणुमात्र आत्मा' इत्याह ( ११३६ व्यासभाष्यघृतं पञ्च- शिखवाक्यं द्र० ) । अत एव चिदचिद्विषयक सर्व तात्त्विकं समाधिजं च ज्ञानमात्मज्ञानपदवाच्यमिति । “शुद्धात्मतत्त्वविज्ञानं सांख्यमित्यभिधीयते”, "संख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षते, तत्त्वानि च चतुर्विंशत् तेन सांख्याः प्रकीर्तिताः” इत्यादिभिरभियुक्तवचनैरपि आत्मज्ञानापरपर्यायभूता सांख्य- विद्येति सिद्धम् । सांख्ययोगविद्यावैशिष्टयम् – सेयं सांख्ययोगविद्या दुःखनाशायालमिति कृत्वा दुःख-तत्कारण-तद्धानोपायादिविषया अत्र युक्तितः समयतश्च विवृताः । न खलु दुःखकारणादीन्यज्ञात्वा कश्चिद् दुःखनिरोधकरणे शक्त इति कृत्वा दुःखकारण-तन्निरोधहेतुभूतं कार्यकारणात्मकं विज्ञानमिह आन्वीक्षिकोपद्धत्या विवृतम् । प्रमेयज्ञानं च प्रयोगपरीक्षण-बलमन्तरेण नार्थसाधकमित्यतः साधन- बलमपि विशेषतो योगे विवृतम् । अत एवोच्यते – 'नास्ति सांख्यसमं ज्ञानं नास्ति योगसमं बलम्” इति ( शान्ति० ३१६ | २) । अत एव सांख्येति नाम सम्यग्दर्शनात्मकत्वात् प्रचलति इत्युपरिष्टादभिधास्यते । तत्त्वदर्शनोपायो योग इति प्रसिद्धमेव। ( शारीरक० २।१।३ द्र० ) । अत एव सांख्ययोगशास्त्रं चतुर्व्यूहमित्यभ्युपगतम् । तदेतद् विवृतं व्यासभाष्ये–“यथा चिकित्सा- शास्त्रं चतुर्व्यूहम् एवमिदमपि शास्त्रं चतुर्व्यूहमेव, तद् यथा—संसारः, संस/रहेतुः, मोक्षः, मोक्षोपायः” इति ( २ | १६ )। तत्र मोक्षोपायभूतानि योगा- ङ्गानि, तदनुष्ठानज्ञानार्थं चित्तादीनामविद्यादीनां च ज्ञानम्, कर्मादीनां च विज्ञानम्, अभ्यासवैराग्यस्वरूपं चेत्यादयो योगविद्याया असाधारणा विषयाः । साधनहशा च प्रधानादयः पदार्था अपीहोपन्यस्ता विचारिताश्च; त इमे सांख्यविद्याया असाधारणविषयाः । यत इदं शास्त्रं न्यायोपजोवि, अतः यथेच्छं तर्कणीयाः प्रधानादिपदार्थाः । तकतोऽपि सांख्ययोगीयाः सर्वे पदार्थाः सामान्यतः सिद्धा भवन्तीत्यन्यत्र दर्शि- तम्। न्यायोपजीवित्वाच्च नात्र प्रतिपदं शब्दप्रमाणस्यापेक्षा वर्तते । अत एव च कलावशिष्टमपि सांख्ययोगशास्त्र समग्रां विद्यां बोधयितुं समर्थम्, यथा दृष्ट- मुदरम् पृष्ठमप्यनुमापयेत् तथात्रापि विज्ञेयम् । किञ्च, तत्त्वतो विश्लेषणे कृते सति सांख्यशास्त्रोक्तानां पदार्थानामनुक्तं वैशिष्टयादिकमपि ज्ञायते, अनभिहिता बहवोऽवान्तरपदार्था अपि विज्ञाताः साक्षात्कृताश्च भवन्ति । न खलु प्रमेय १. यथाह सांख्यविद् देवल:- "एतौ सांख्ययोगौ चाधिकृत्य यैयुंक्तितः समय- तश्च पूर्वप्रणीतानि विशालानि गम्भीराणि तन्त्राणीह संक्षिप्य उद्देश्यतो वक्ष्यन्ते" ( याज्ञ● प्रायश्चित्ताध्यायः १०९, अपराकँटीका द्र० )
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६
दिखावट