समाजे । वस्तुतस्तु आदिमाः सिद्धा उपदेष्टारो योगविषये चरमाणि सत्यतत्त्वानि भाषितवन्तः कृत्स्नशः, सिद्धचित्तेषु तत्त्वज्ञानपूर्णता दर्शनात् । अत एव पतञ्जलि- प्रभृतिभिरनुशासनमेव कृतम्, न पुनरपूर्वस्त्र शास्त्रस्य सर्जनम् । सांख्ययोगविद्याभ्युपगतानि प्रमाणानि - प्रमाणविषये मनूक्तं मतमेव सांख्ययोगिनामनुमतम् - "प्रत्यक्षमनुमानं च तथा च विविधागमम् । त्र्यं सुविदितं कार्यम्” इति (१२।१५) | लौकिकं प्रत्यक्षम्, ( यच्च यान्त्रिकं प्रत्यक्षं तदपि लौकिकमेव ) ध्यानजं प्रत्यक्षं चाध्यात्मविद्यासंमतम् । योगशास्त्रे नाडयादीनां यद् विवरणमुपलभ्यते तद् ध्यानजदर्शनानुसारीति विज्ञेयमत एव जडविज्ञानेन सह न तत् सर्वथा संवदति । योगर्द्धिमद्भिर्ऋषिभिर्यत् स्वीयं वेदनं शास्त्ररूपेण प्रकाशितं तदपि प्रमाणम् । वस्तुतोऽस्माकमिदं सुचिन्तित - मभिमतं यत् सांख्ययोगविद्यामन्तरेण न कश्चिद् वेदगतान् पदार्थान् विवरीतु- मीष्टे । अग्निवाय्वादिदेवतानां स्वरूपं कर्म च ऐश्वर्यतत्त्वज्ञानमन्तरा न सुखावबोधम् । आरण्यकेषु या मुख्यतः प्राणविद्या वर्तते, उपनिषत्सु यत् सगुण- मैश्वर्ययुक्तं निर्गुणमीश्वरातीतं च वस्तु वर्णितम्, तयोरुपपत्तिः सांख्ययोगेनैव करणीया; अन्यथा वेदवचसामाम्रेडनमात्रमेव भवेदित्यस्माकं प्रत्यक्षम् । अत एव 'ईशावास्यमिदं सर्वम्' इत्यादिश्रुतीनां कार्यकारणोपदर्शकयुक्ति बलेन प्रमाणीकरणं न व्याख्याकारैरयोगविद्भिः कृतमिति दृश्यते । यत् सद्भूतं वस्तु साक्षात्कृतं भवति, तदस्तित्वस्वरूपादयो नूनं न्यायेनोपपादनीयाः स्युरिति । सेयं सांख्ययोगविद्याऽऽन्वीक्षिकीपथेन प्रचारितर्षिसमाजे पञ्चशिख-पतञ्जलि- प्रभृतिभिः । तत्त्वसाक्षात्कारिणामृषीणां यद् वेदनं तद् यैर्न्यायैः प्रमाणीक्रियते, तेषां न्यायानां समष्टिरेव दर्शनम्। सांख्यविद्या खल्वेतादृशन्यायोपबृंहितेति । अत उक्तम् 'सांख्यं तु मोक्षदर्शनम्' इति ( शान्ति० ३०० | ५ ) । उपपत्तिपूर्वकं कथनं श्रुतावपि क्वचिदास्ते—“कथमसतः सज्जायेते” त्यादिषु । याज्ञवल्क्यादयो- ऽपि तर्कोपपत्तिभिरात्मसत्तां प्रतिपादयामासुः (बृह०४।५।१ शा. भा.) । मनुरपि अनुमानोपयोगितामाह ( १२ । १०६), अत एवान्वीक्षिक्या उपादेयता योगिभि- रप्युररीक्रियते । अत एव 'अलिङ्गां प्रकृति त्वाहुर्लिङ्गैरनुमिमीमहे' ( शान्ति ३०३।४७), 'अनुमानाद् विजानीमः पुरुषं सत्त्वसंश्रयम्' (अश्व०४८ ६) ‘एवमप्यनुमानेन ह्यलिङ्गमुपलभ्यते' ( शान्ति० ३०५।२७), आत्मा वा अरे श्रोतव्यो मन्तव्यः' ( बृह० ४ | ५ | ६ ) इत्युच्यते आचार्यैः । भवतु नाम ब्रह्मणः स्वरूपमचिन्त्यम्, सर्वदृश्यधर्मशून्यत्वात् तस्य, परन्तु 'ब्रह्म अस्तीति' मतं खलु चिन्त्यम्, तर्केण परीक्षणीयं च । अतश्च श्रुतौ 'पुरुष इति चिन्त्यम्' इत्युक्तम् ( श्वेताश्व० १।२ ) ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१८
दिखावट