पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेम् [प. २. सू. १३ देवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति । यथा तीव्रक्लेशेन भीतव्याधितकृपणेषु विश्वासोपगतेषु वा महानुभावेषु वा तपस्विषु कृतः पुनः पुनरपकारः स चापि पापकर्माशयः सद्य एव परिपच्यते । यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः । तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणत इति । तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः । क्षीणक्ले- शानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ।। १२ ।। ६१ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥ सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः प्ररोहसमर्था भवन्ति नापनीततुषा दग्धबीजभावा वा, तथा क्लेशावनद्धः कर्माशयो विपाकप्ररोही भवति, नापनीतक्लेशो न प्रसंख्यानदग्धक्लेशबीजभावो वेति । स च विपाक- स्त्रिविधो जातिरायुर्भोग इति । तीव्रसंवेगेनेति । यथासंख्यं दृष्टान्तावाह—यथा नन्दीश्वर इति । तत्र नारकाणामिति । येन कर्माशयेन कुम्भीपाकादयो नरकभेदाः प्राप्यन्ते तत्का- रिणो नारकाः। तेषां नास्ति दृष्टजन्मवेदनीयः कर्माशयः । न हि मनुष्यशरीरेण तत्परिणाममेदेन वा सा तादृशी वत्सरसहस्रादिनिरन्तरोपभोग्या वेदना संभवतीति । शेषं सुगमम् ॥ १२ ॥ स्यादेतत्-अविद्यामूलत्वे कर्माशयस्य विद्योलादे सत्यविद्याविनाशान्मा नाम कर्माशयान्तरं चैषीत्, प्राचां तु कर्माशयानामनादिभवपरम्परासंचितानामसंख्या- तानामनियतविपाककालानां भोगेन क्षपयितुमशक्यत्वादशक्योच्छेदः संसारः स्यादित्यत आह–सति मूले तद्विपाको जात्यायुर्भोगाः इति । एतदुक्तं भवति- सुखदुःखफलो हि कर्माशयस्तादर्थ्येन तन्नान्तरीयकतथा जन्मायुषी अपि प्रसूते। सुखदुःखे च रागद्वेषानुषक्ते तदविनिर्भागवर्तिनी तदभावे न भवतः । न चास्ति संभवो न च तत्र यस्तुष्यति वोद्विजते वा तच्च तस्य सुखं वा दुःखं वेति । तदिय- मात्मभूमिः क्लेशसलिलावसिक्ता कर्मफलप्रसवक्षेत्रमित्यस्ति क्लेशानां फलोपज- ननेऽपि कर्माशयसहकारितेति, क्लेशसमुच्छेदे सहकारिवैकल्यात्सन्नप्यनन्तोऽप्यनि- यतविपाककालोऽपि प्रसंख्यानदग्धबीजभावो न फलाय कल्पत इति । उक्तमर्थ भाष्यमेव द्योतयति सत्स्विति । अत्रैव दृष्टान्तमाह — यथा तुषेति । सतुषा अपि दग्धबीजभावाः स्वेदादिभिः । दार्शन्तिके योजयति तथेति । ननु न क्लेशाः शक्या अपनेतुम् । न हि सतामपनय इत्यत आह - न प्रसंख्या- नदग्धक्लेशबीजभाव इति । विपाकस्य त्रैविध्यमाह–स चेति । विपच्यते