सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पां. २ सू. १२ ] पातञ्जलयोगसूत्रम् स्थितानां तु बीजभावोपगतानाम्-- ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥ क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्या यावत्सूक्ष्मीकृता यावद्दग्धवीजकल्पा इति । यथा वस्त्राणां स्थूलो मलः पूर्व निर्धूयते पश्चात्सुक्ष्मो यत्नेनोपायेन वापनीयते तथा स्वल्प- प्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ तत्र पुण्यापुण्यकर्माशयः लोभमोहक्रोधप्रभवः । स दृष्टजन्मवेदनीयश्चा- दृष्टजन्मवेदनीयश्च । तत्र तीव्रसंवेगेन मन्त्रतपःसमाधिभिर्निर्वर्तित ईश्वर- अथ क्रियायोगतनूकृतानां क्लेशानां किंविषयात्पुरुषप्रयत्नाद्वानमित्यत आह—स्थितानां तु बीजभावोपगतानामिति । अनेन बन्ध्येभ्यो व्यवच्छिनत्ति। सूत्रं पठति – ध्यान हेयास्तवृत्तयः । व्याचष्टे –क्लेशानामिति । क्रियायोग- तनूकृता अपि हि प्रतिप्रसवहेतुभावेन कार्यतः स्वरूपतश्च शक्या उच्छेत्तु- मिति स्थूला उक्ताः । पुरुषप्रयत्नस्य प्रसंख्यानागोचरस्यावधिमाह-यावदिति । सूक्ष्मीकृता इति विवृणोति — दग्धेति । अत्रैव दृष्टान्तमाह - यथा वस्त्राणा- मिति । यत्नेन चालनादिना। उपायेन क्षारसंयोगादिना | स्थूलसूक्ष्मतामात्रतया दृष्टान्तदान्तिकयोः साम्यं न पुनः प्रयत्नापनेयतया, प्रतिप्रसवहेयेषु तदसंभ- वात् । स्वल्पः प्रतिपक्ष उच्छेदहेतुर्यासां तास्तथोक्ताः । महान्प्रतिपक्ष उच्छेद- हेतुर्यासां तास्तथोक्ताः । प्रतिप्रसवस्य चाघस्तात् क्लेशोच्छेदसाधकं स्यात् प्रसंख्यानमित्यवरतया स्वल्पत्वमुक्तम् ॥ ११ ॥ स्यादेतत्-जात्यायुभोंगहेतवः पुरुषं क्लिश्नन्तः क्लेशाः। कर्माशयश्च तथा, न त्वविद्यादयः। तत्कथमविद्यादयः क्लेशा इत्यत आह-क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा मूलं यस्योत्पादे च कार्यकरणे च स तथोक्तः । एतदुक्तं भवति — अविद्यादिमूलो हि कर्माशयो जात्यायुर्भोग हेतु रित्य विद्यादयोऽपि तद्वेतवोऽतः क्लेशा इति व्याचष्टे-तत्रेति । आशेरते सांसारिकाः पुरुषा अस्मिन्नित्याशयः । कर्मणामाशयो धर्माधम कामात्काम्यकर्मप्रवृत्तौ स्वर्गादिहेतुर्धर्मो भवति । एवं लोभात्परद्रव्यापहारादावधर्मः। मोहादधर्मे हिंसादौ धर्मबुद्धेः प्रवर्तमानस्याधर्म एव । न त्वस्ति मोहजो धर्मः। अस्ति क्रोधजो धर्मः। तद्यथा ध्रुवस्य जनकापमानजन्मनः क्रोधात्तजिगीषयाहितत्वेन कर्माशयेन पुण्ये- नान्तरिक्षलोकवासिनामुपरि स्थानम्। अधर्मस्तु क्रोधजो ब्रह्मवधादिजन्मा प्रसिद्ध एव भूतानाम् । तस्य द्वैविध्यमाह - स दृष्टजन्मेति । दृष्टजन्मवेदनीयमाइ---