[ पा. २ सू. १३ पातञ्जलयोगसूत्रम् तत्रेदं विचायते–किमेकं कर्मैकस्य जन्मनः कारणमथैकं कर्मानेक जन्माक्षिपतीति । द्वितीया विचारणा-किमनेकं कर्मानेकं जन्म निर्वर्तयत्यथा- नेकं कर्मैकं जन्म निर्वर्तयतीति । न तावदेकं कसैकस्य जन्मनः कारणम् । कस्मात् ? अनादिकालप्रचितस्यासंख्येयस्यावशिष्टकर्मणः सांप्रतिकस्य च फलक्रमानियमाद्नाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । न चैकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? अनेकेषु कर्मस्वेकैकमेव कर्मानेकस्य जन्मनः कारणमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्यनिष्ट इति । न चानेकं कर्मानेकस्य जन्मनः कारणम् । कस्मात् ? तदनेकं जन्म युगपन्न संभवतीति, क्रमेणैव वाच्यम्, तथा च पूर्वदोषानुपङ्गः । ६२ साध्यते कर्मभिरिति विपाकः । कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा प्रथमा विचारणा । द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा । तदेवं चत्वारो विकल्पाः । तत्र प्रथमं विकल्पमपाकरोति —न तावदेकं कर्मैकस्य जन्मनः कारणम् इति । पृच्छति–कस्मादिति । उत्तरमाह- अनादिकाल एकैकजन्मप्रचितस्यात एवा- संख्येयस्यै कैकजन्मक्षपिता दे कैकस्मात्कर्मणोऽवशिष्टस्य कर्मणः, सांप्रतिकस्य च फलक्रमानियमाद्नाश्वासो लोकस्य प्रसक्तः, स चानिष्ट इति । एतदुक्तं भवति – कर्मक्षयस्य विरलत्वात्तदुत्पत्तिबाहुल्याच्चान्योऽन्यसंपीडिताः कर्माशया निरन्तरोत्पत्तयों निरुच्छ्वासाः स्वविपाकं प्रतीति न फलक्रमः शक्योऽ- •वधारयितुं प्रेक्षावतेत्यनाश्वासः पुण्यानुष्ठानं प्रति प्रसक्त इति । द्वितीयं विकल्प निराकरोति-न चैकं कर्मानेकस्य जन्मनः कारणम् । पृच्छति–कस्मादिति । उत्तरमाह - अनेकेष्विति । अनेकस्मिञ्जन्मन्याहितमेकैकमेव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमित्तमित्यवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्यनिष्टः । कर्मवैफल्येन तदननुष्ठानप्रसङ्गात् । यदैकजन्मसमुच्छेद्ये कर्मण्ये कस्मिन्फलक्रमानियमादनाश्वासस्तदा कैव कथा बहुजन्मसमुच्छेद्ये कर्मण्येक स्मिन् । तत्र ह्यवसराभावाद्विपाककालाभाव एव सांप्रतिकस्येति भावः । तृतीयं विकल्पं निराकरोति – न चानेकं कर्मानेकस्य जन्मनः कारणम् । तत्र हेतुमाह — तदिति । तदनेकं जन्म युगपन्न संभवत्ययोगिन इति क्रमेण वाच्यम् । यदि हि कर्मसहस्रं युगपजन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रप्रक्षयाद- वशिष्टस्य विपाककालः फलक्रमनियमश्च स्याताम् । न त्वस्ति जन्मनां यौगपद्यम् । एवमेव प्रथमपक्ष एवोक्तं दूषणमित्यर्थः ।
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१६९
दिखावट