सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुत व्यासभाष्यसमेतम् [ पा. १ सू. १७ रेवं मन्यते- प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भव- संक्रमः, यस्याविच्छेदाजनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यमिति ।। १६ ।। अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते संप्रज्ञातः समाधिरिति- वितर्कांविचारानन्दास्मितारूपानुगमात्संप्रज्ञातः ॥ १७ ॥ वितर्कश्चित्तस्यालम्बने स्थूल आभोगः । सूक्ष्मो विचारः । आनन्दो तस्य गुणानुपादेयत्वाय दर्शयति — यस्योदये प्रत्युदितख्यातिः । ख्यातिविशेषे सति वर्तमानख्यातिमानित्यर्थः । प्रापणीयं कैवल्यं प्राप्तम् । यथा वक्ष्यति— जीवन्नेव विद्वान्मुक्तो भवति (भाष्य ४ | ३०) । संस्कारमात्रस्य च्छिन्नमूलस्य सिद्धत्वादिति भावः । कुतः प्राप्तं, यतः— -क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः । नन्वस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य संक्रमः प्राणि- नाम् । तत्कुतः कैवल्यमित्यत आह - छिन्न इति । श्लिष्ट नि नि.संधीनि पर्वाणि यस्य स तथोक्तः । धर्माधर्मसमूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि । न हि जातु जन्तुर्मरण जन्मप्रबन्धेन त्यक्ष्यते । सोयं भवसक्रम. क्लेशक्षये छिन्नः। यथा वक्ष्यति—‘क्लेशमूल: कर्माशयः' (२।१२) 'सति मूले तद्विपाकः, ( २ | १३) इति । ननु प्रसंख्यानपरिपाकं धर्ममेधं च निरोधमन्तरा किं तदस्ति यज्ज्ञानप्रसादमात्रमित्यत आह – ज्ञानस्यैवेति । धर्ममेघभेद एव परं वैराग्यं नान्यत् । यथा वक्ष्यति—'प्रसंख्या नेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधि:' (४/२६ ) । 'तदा सर्वावरणमलापेतस्य ज्ञानस्वानन्त्याज्ज्ञेय- मल्पम्' ( ४ | ३१ ) इति च । तस्मादेतस्य हि नान्तरीयकमविनाभावि कैवल्यामिति ॥ १६ ॥ उपायमभिधाय सप्रकारोपेय कथनाय पृच्छति–अथोपायद्वयेनेति । वितर्क- विचारानन्दास्मितारूपानुगमात्संप्रज्ञातः । संप्रज्ञातपूर्व कत्वादसंप्रज्ञातस्य प्रथमं संप्रज्ञातोपवर्णनम् । संप्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैरनुगमात्प्रतिपत्तव्यम् । वितकं विवृणोति - चित्तस्येति । स्वरूपसाक्षात्का रवती प्रज्ञा आभोगः। स च स्थूलविषयत्वात्स्थूलः । यथा हिप्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यत्यथ सूक्ष्ममेवं प्राथमिको योगी स्थूलमेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्यथ सूक्ष्ममिति । एवं चित्तस्थालम्बने सूक्ष्म आभोगः स्थूलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङगालिंङ्गविषयो विचारः । तदेवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति–आनन्द इति । इन्द्रिये स्थूला- लम्बने चित्तस्याभोगो ह्लाद आनन्दः । प्रकाशशीलतया खलु सत्त्वप्रधानाद- हंकारादिन्द्रियाण्युत्पन्नानि । सत्त्वं सुखमिति तान्यपि सुखानीति तस्मिन्नाभोगो