सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रम् पा. १सू. १६ ] कारसंज्ञा वैराग्यम् ।। १५ ।। तत्परं पुरुषख्यातेर्गुण वैतृष्ण्यम् ॥ १६ ॥ दृष्टानुनविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात्तच्छुद्धिप्रवि- वेकाप्यायितबुद्धिर्गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् | यस्योदये प्रत्युदितख्याति- तापत्रयपरीतता विषयाणां दोषस्तत्परिभावनया तत्साक्षात्कारः प्रसंख्यानं तद्वलादित्यर्थः । यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंशा चेति चतस्रः संज्ञा इत्यागमिनः । ररागादयः खलु कषायाश्चित्तवर्तिनस्तै रिन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते, तन्मा प्रवर्तिषतेन्द्रियाणि तत्तद्विषयेष्विति पाचनायारम्भः प्रयत्नः सा यतमानसंज्ञा । तदारम्भे सति केचित्कषायाः पक्वाः पच्यन्ते पक्ष्यन्ते च केचित् । तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणा- बधारणं व्यतिरेकसंज्ञा । इन्द्रियप्रवर्तनासमर्थतया पक्वानामौत्सुक्यमात्रेण मनसि व्यवस्थानमेकेन्द्रियसंज्ञा । औत्सुक्यमात्रस्यापि निवृत्तिरुपस्थितेष्वपि दिव्यादिव्यविषयेषूपेक्षाबुद्धिः संज्ञात्रयात्परा वशीकारसंज्ञा । एतथैव च पूर्वासां चरितार्थत्वान्न ताः पृथगुता इति सर्वमवदातम् ||१५|| अपरं वैराग्यमुक्त्वा परमाह -- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । अपर- वैराग्यस्य परं वैराग्यं प्रति कारणत्वम् । तत्र च द्वारमादर्शयति दृष्टानुश्र- विकविषयदोषदर्शी विरक्त इति । अनेनापरं वैराग्यं दर्शितम् । पुरुषदर्शना- भ्यासादागमानुमानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनं तस्याभ्यासः पौनः- पुन्येन निषेवणं तस्मात्तस्य दर्शनस्य शुद्धी रजस्तमः परिहाण्या सत्त्वैकतानता तथा यो गुणपुरुषयोः प्रकर्षेण विवेकः पुरुषः शुद्धोऽनन्तस्तद्विपरीता गुणा इति तेनाप्यायिता बुद्धिर्यस्य योगिनः स तथोक्तः । तदनेन धर्ममेघाख्यः समाधि- रुक्तः । स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्व- पुरुषान्यताख्यातावपि गुणात्मिकायां यावद्विरक्त इति । तत्तस्माद्द्वयं वैराग्यम् । पूर्वं हि वैराग्यं सत्त्वसमुद्रेकविधूततमसि रजःकण कलङ्कसंपृक्ते चित्तसत्त्वे । तच्च तौष्टिकानामपि समानम् । ते हि तेनैव प्रकृतिलया बभूवुः । यथोक्तम्- वैराग्यात्प्रकृतिलय इति ( सां० का० ४५ ) । तत्र तयोर्द्वयोर्मध्ये यदुत्तरं तज्ज्ञान- प्रसादमात्रम् । मात्रग्रहणेन निर्विषयतां सूचयति । तदेव हि तादृशं चित्तसत्त्वं रजोलेशम लेनाप्यपरामृष्टमस्याश्रयोऽत एव ज्ञानप्रसाद इत्युच्यते । चित्तसत्त्वं हि प्रसादस्वभावमपि रजस्तमः संपर्कान्मलिनतामनुभवति । वैराग्याभ्यासविमल- •वारधाराधौतमस्तरजस्तमोमलं त्वतिप्रसन्नं ज्ञानप्रसादमात्रपरिशेषं भवति । १८