सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुत व्यासमाष्यसमेतम् [पा. १ सू. १५ मुत्साहः । तत्संपिपादयिषया तत्साधनानुष्ठानमभ्यासः ।। १३ ।। स तू दीर्घकालनै रन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥ दीर्घकालासेवितो निरन्तरासेवितः, तपसा ब्रह्मचर्येण विद्यया श्रद्धया च संपादितः सत्कारवान्दृढभूमिर्भवति, व्युत्थानसंस्कारेण द्रागित्येवानभि- भूतविषय इत्यर्थः ॥ १४ ॥ दृष्टानुश्रविकविषय वितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥ स्त्रियोऽन्नपानमैश्वर्यमिति दृष्टविषयवितृष्णस्य स्वर्गवैदेय प्रकृतिलयत्व- प्राप्तावानुनविकविषये वितृष्णस्य दिव्यादिव्यविषयसंप्रयोगेऽपि चित्तस्य विषयदोपदर्शिनः प्रसंख्यानबलादनाभोगात्मिका हेयोपादेयशून्या वशी- १७ त्तसप्तमी व्याख्याता । यथा “चर्मणि द्वीपिनं हन्ति'; ( महाभाष्य २ |३|३६ ) इति । प्रयत्नमेव पर्यायाभ्यां विशदयति–वीर्यमुत्साह इति । तस्येच्छायोनिता- माह - तत्सं पिपादयिषया । तदिति स्थिति परामृशति । प्रयत्नस्य विषयमाह- तत्साधनेति। स्थितिसाधनान्यन्तरङ्गबहिरङ्गाणि यमनियमादीनि । साधनगोचरः कर्तृव्यापारी न फलगोचर इति ॥ १३ ॥ - ननु व्युत्थान संस्कारेणानादिना परिपन्थिना प्रतिबद्धोऽभ्यासः कथं स्थित्यै कल्पत इत्यत आह—स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः । सोऽयमभ्यासो विशेषणत्रयसंपन्नः सन्हढावस्थो न सहसा व्युत्थानसंस्कारैरभि- भूतस्थितिरूपविषयो भवति । यदि पुनरेवंभूतमप्यभ्यासं कृत्वोपरमेत्ततः काल- परिवासेनाभिभूयेत । तस्मान्नोपरन्तव्यमिति भावः ॥ १४ ॥ वैराग्यमाह — दृष्टानुनविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् । चेतनाचेतनेषु दृष्टविषयेषु वितृष्णतामाह - स्त्रिय इति । ऐश्वर्यमाधिपत्यम् । अनुश्रवो वेदस्ततोऽधिगता आनुश्रविकाः स्वर्गादयः । तत्रापि वैतृष्ण्यमाह- स्वर्गेति । देहरहिता विदेहाः करणेषु लीनास्तेषां भावो वैदेह्यम् । अन्ये तु प्रकृति मेवात्मानमभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायामेव लीनास्तेषां भावः प्रकृतिलयत्वं तत्प्राप्तिविषये, आनुश्रविकविषये वितृष्णस्य । आनुभविकविषये वितृष्णो हि स्वर्गादिप्राप्तिविषये वितृष्ण उच्यते । ननु यदि वैतृष्ण्यमात्रं वैराग्यं हन्त विषयाप्राप्तावपि तदस्तीति वैराग्यं स्यादित्यत आइ- दिव्यादिव्येति। न वैतृष्ण्यमात्रं वैराग्यमपि तु दिव्यादिव्य विषयसंप्रयोगेऽपि चित्तस्यानाभोगात्मिका । तामेव स्पष्टयति – हेयोपादेयशून्या । आसङ्गद्वेषर- हितोपेक्षाबुद्धिर्वशीकारसंज्ञा । कुतः पुनरियमित्यत्राह — प्रसंख्यानबलादिति ।" २ यो० सू०