पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ पा १ सू. १३ ] पातञ्जलयोगसूत्रम् भावितस्मर्तव्या चाभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या । जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाश्चैताः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृती- नामनुभवात्प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःख- मोहाञ्च क्लेशेषु व्याख्येयाः । सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः पुनरविद्येति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे संप्रज्ञातो वा समाधिर्भवत्यसंप्रज्ञातो वेति ॥ ११ ।। अथासां निरोधे क उपाय इति-- अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥ चित्तनदी नामोभयतोवाहिनी वहति कल्याणाय, वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा । संसारप्रा- भाराऽविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिली- क्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयावीनश्चित्त- वृत्तिनिरोधः ॥ १२ ॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥ चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नो वीर्य- भवति । सोऽयमसंप्रमोष इति । नन्वस्ति स्मृतेरपि संप्रमोषः । दर्शयति हि पित्रादे- रतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसंबन्धं स्वप्न इत्यत आह - सा च द्वयीति । भावितः कल्पितः स्मर्तव्यो यया सा तथोक्ता । अभा- वितोऽकल्पितः पारमार्थिक इति यावत् । नेयं स्मृतिरपि तु विपर्ययस्तल्लक्षणोपपन्न- त्वात् । स्मृत्याभासतया तु स्मृतिरुक्ता प्रमाणाभासमिव प्रमाणमिति भावः । कस्मात्पुनरन्ते स्मृतेरुपन्यास इत्यत आह–सर्वाश्चैताः स्मृतय इति । अनुभवः प्राप्तिः। प्राप्तिपूर्वा वृत्तिः स्मृतिस्ततः स्मृतीनामुपजन इत्यर्थः । ननु ये पुरुष क्लिश्यन्ति ते निरोद्धव्याः प्रेक्षावता । क्लेशाश्च तथा, न च वृत्तयः । तत्किमर्थ- मासां निरोध इत्यत आह—सर्वाश्चैता इति । सुगमम् ।। ११ ।। निरोधोपायं पृच्छति—अथेति । सूत्रेणोत्तरमाह-अभ्यासवैराग्याभ्यां तन्निरोधः । अभ्यासवैराग्ययोर्निरोधे जनयितव्येऽवान्तरव्यापारभेदेन समुच्चयो न तु विकल्प इत्याह - चित्तनदीति । प्राग्भारः प्रबन्धः । निम्नता गम्भीरता, अगाधतेति यावत् ॥ १२ ॥ तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणमाह — तत्र स्थितौ यत्नोऽभ्यासः । तद्वथाचष्टे – चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तवाहिता वि- मलता सात्त्विकव त्तिवाहितैकाग्रता स्थितिः । तदर्थ इति । स्थिताविति निमि-