वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. १सू. ११ न स्यादसति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मा- त्प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्येति ।। १० ।। अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११ ॥ किं प्रत्ययस्य चित्तं स्मरति आहोस्विद्विषयस्येति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासस्तज्जातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्ज काञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति । तत्र ग्रहणाकारपूर्वा बुद्धिः । ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी- हेतुव्यतिरेकमाह- इस खल्वयमिति । प्रबुद्धस्य । प्रबुद्धमात्रस्य बोधकाले । प्रत्ययानुभवे । वृत्त्यभावकारणानुभवे । तदाश्रिताः बोधजन्याः । तद्विषयाः । वत्त्यभावकारणविषया इत्यर्थः । ननु प्रमाणादयो व्युत्थानचित्ताधिकरणा नि- रुध्यन्तां समाधिप्रतिपक्षत्वात् । निद्रायास्त्वेकाग्रवृत्तितुल्यायाः कथं समाधिप्रति- पक्षतेत्यत आह - सा च समाधाविति । एकाग्रतुल्यापि तामसत्वेन निद्रा सचीजनिर्बीजसमाधिप्रतिपक्षेति सापि निरोद्धव्येत्यर्थः ॥ १० ॥ अनूभूतविषयासंप्रमोषः स्मृतिः। प्रमाणादिभिरनुभूते विषये योऽसंप्रमोषो- ऽस्तेयं सा स्मृतिः । संस्कारमात्रजस्य हि ज्ञानस्य संस्कारकारणानुभवावभासितो विषय आत्मीयस्तदधिकविषयपरिग्रहस्तु संप्रमोषः स्तेयम् । कस्मात्सादृश्यात् । मुष स्तेये (घा. पा. ६/६१) इत्यस्मात्प्रमोषपदव्युत्पत्तेः । एतदुक्तं भवति - सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यतः प्रकारतो वाऽधिगमयन्ति । स्मृतिः पुनर्न पूर्वानुभवमर्यादामतिक्रामति । तद्विषया तदूनविषया वा न तु तदधिकविषया । सोऽयं वृत्त्यन्तराद्विशेषः स्मृतेरिति । विमृशति - किं प्रत्ययस्येति । ग्राह्यप्रवण- त्वादनुभवस्य स्वानुभवाभावात्तजः संस्कारो ग्राह्यमेव स्मारयतीति प्रतिभाति । अनुभवमात्रजनितत्वाच्चानुभवमेव वेति । विमृश्योपपत्तित उभयस्मरणमवधारय- ति— ग्राह्यप्रवणतया ग्राह्योपरक्तः । परमार्थतस्तु ग्राह्यग्रहणे एवोभयं तयोराकार स्वरूपं निर्भासयति प्रकाशयति । स्त्रव्यञ्जकं कारणमञ्जनमाकारो यस्य स तथोक्तः । स्वकारणाकार इत्यर्थः । स्वकारणाकारव्यञ्जकमुद्बोधकं तेनाञ्जनं फलामिमुखीकरणं यस्येति वेत्यर्थः । १५ ननु यदि कारणविचारेण बुद्धिस्मरणयोः सारूप्यं कस्तर्हि भेद इत्यत आह- तत्र ग्रहणेति । ग्रहणमुपादानम् । न च गृहीतस्योपात्तस्योपादानं संभवति । तदनेनानधिगतबोधनं बुद्धिरित्युक्तम् । ग्रहणाकारो ग्रहणरूपं पूर्व प्रधानं यस्याः सा तथोक्ता। विकल्पितश्चायमभेदेऽपि गुणप्रधानभाव इति । ग्राह्याकारः पूर्वः प्रथमो यस्याः सा तथोक्ता | इदमेव च ग्राह्याकारस्य ग्राह्यस्य पूर्वत्वं यद्धृ- त्यन्तरविषयीकृतत्वमर्थस्य तदनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिरित्युक्तं
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२२
दिखावट