पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. १० ] पातञ्जलयोगसूत्रम् १४ गम्यते । तथानुत्पत्तिधर्मा पुरुष इति उत्पत्तिधर्मस्याभावमाश्रमवगम्यते न पुरुषान्वयी धर्मः। तस्माद्विकल्पितः स धर्मस्तेन चास्ति व्यवहार इति ||९|| अभावप्रत्ययालम्बना वृत्तिनिद्रा ॥ १० ॥ साच संप्रबोधे प्रत्यवमर्शात्प्रत्ययविशेषः । कथम्, सुखमहमस्वाप्सम् प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति । दुःखमहमस्त्राप्सं स्त्यानं मे मनो भ्रमत्यनवस्थितम् । गाढं मूढोऽहमस्त्राप्सम् गुरूणि मे गात्राणि क्लान्तं मे चित्तम् अलसं मुषितमिव तिष्ठतीति । स खल्त्रयं प्रबुद्धस्य प्रत्यवमर्शो पूर्वापरीभूतः कर्मक्षणप्रचय एकफलावच्छिन्न ः प्रतीयत एवं तिष्ठतीत्यत्रापि । पूर्वापरी भाव मेवाह - स्थास्यति स्थित इति । ननु भवतु पाकवत्पूर्वापरीभूतया वस्थानक्रियया बाणाद्भिन्नया बाणस्य व्यपदेश इत्यत आह - गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । गतिनिवृत्तिरेव तावत्कल्पिता तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इत्यहो कल्पनापरम्परेत्यर्थः । अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिदित्यु- दाहरणान्तरमाह—तथानुत्पत्तिधर्मेति । प्रमाणविपर्ययाभ्यामन्या न विकल्प- वृत्तिरिति वादिनो बहवः प्रतिपेदिरे । तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम् ॥ ६ ॥ अभावप्रत्ययालम्बना वृत्तिनिंद्रा । अधिकृतं हि वृत्तिपदमनुवादकम् । प्रमाणविपर्यय विकल्पस्मृतीनां वृत्तित्वं प्रति परीक्षकाणामविप्रतिपत्तेः । अतस्तद- नूद्यते विशेष विधानाय । निद्रायास्तु वृत्तित्वे परीक्षकाणामस्ति विप्रतिपत्तिरिति वृत्तित्वं विधेयम्। न च प्रकृतमनुवादकं विधानाय कल्पत इति पुनर्वृत्तिग्रहणम् । जाग्रत्स्वप्नवृत्तीनामभावस्तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच्छादकं तमस्तदेवा- लम्बनं विषयो यस्याः तथोक्का वृत्तिर्निद्रा । बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्व- रजसी अभिभूय समस्तकरणावरकमाविरस्ति तमस्तदा बुद्धेविषयाकारपरिणामा- भावादुद्भूततमोमय बुद्धिमवबुध्यमानः पुरुषः सुषुप्तोऽन्तः संज्ञ इत्युच्यते । कस्मा- पुनर्निरुद्धकैवल्ययोरिव वृत्त्यभाव एव न निद्रेत्यत आह - सा च संप्रबोधे प्रत्यवमर्शात्सोपपत्तिकात्स्मरणात्प्रत्ययविशेषः । कथम् । यदा हि सत्त्वसचिवं तम आविरस्ति तदेहशः प्रत्यवमर्श: सुप्तोत्थितस्य भवति सुखमहमस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति स्वच्छीकरोतीति । यदा तु रजःसचिवं तम आविरस्ति तदेहशः प्रत्यवमर्श इत्याह-दुःखमहमस्वाप्सं स्त्यानमक- मंण्यं मे मनः कस्माद्यतो भ्रमत्यनवस्थितम् । नितान्ताभिभूतरजःसत्त्वे तमःस- मुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शमाह - गाढं मूढोऽहमस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसं मुषितमिव तिष्ठतीति । साध्यव्यतिरेके