पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ वाचस्पतिकृतटी कायुतव्यासभाष्यसमेतम् [पा. १ सू. ९ इति । एत एव स्वसंज्ञाभिस्तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति, एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥ सन प्रमाणोपारोही, न विपर्ययोपारोही च । वस्तुशून्यत्वेपि शब्दज्ञान- माहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा चैतन्यं पुरुषस्य स्वरूप- मिति । यदा चितिरेव पुरुषस्तदा किमत्र केन व्यपदिश्यते, भवति च व्यपदेशे वृत्तिः । यथा चैत्रस्य गौरिति । तथा प्रतिषिद्धवस्तुधर्मा निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति । गतिनिवृत्तौ धात्वर्थमात्रं मात्मिका प्रतिपत्तिर्महामोहो रागः । एवमेतेनैत्राभिसंधिना प्रवर्तमानस्य केनचि- त्प्रतिबद्धत्वादणिमादीनामनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोगस्या- सिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः । एवमणिमादिगुणसंपत्तौ दृष्टानुश्रविकविषयप्रत्युपस्थाने च कल्पान्ते सर्वमेतन्नक्ष्यतीति यस्त्रासः सोऽ- भिनिवेशोऽन्धतामिस्रः । तदुक्तम्- मेदस्तमसोऽष्टविधो मोहस्य च दशविधी महामोहः । तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः ॥ (सां. का. ४६ ) इति ॥ ८ ॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः । ननु शब्दज्ञानानुपाती चेदाग- मप्रमाणान्तर्गतो विकल्पः प्रसज्येत निर्वस्तुकत्वे वा विपर्यय: स्यादित्यत आह स नेति । न प्रमाणविपर्ययान्तर्गतः । कस्माद्यतो वस्तुशून्यत्वेऽपीति प्रभा- णान्तर्गतिं निषेधति । शब्दज्ञानमाहात्म्यनिबन्धन इति विपर्ययान्तर्गतिम् । एतदुक्तं भवति – क्वचिदभेदे भेदमारोपयति क्वचित्पुनर्भिन्नानामभेदम् । ततो भेदस्याभेदस्य च वस्तुतोऽभावात्तदाभासो विकल्पो न प्रमाणं नापि विपर्ययो व्यवहाराविसंवादादिति । शास्त्रप्रसिद्धमुदाहरणमाह - तद्यथेति । किं विशेष्यं केन व्यपदिश्यते विशेष्यते नाभेदे विशेष्यविशेषणभावो, न हि गवा गौर्विशेष्यते, किं तु भिन्नेनैव चैत्रेण । तदिदमाह - भवति च व्यपदेशे वृत्तिः । व्यपदेशव्यप- देश्ययोर्भावो व्यपदेशः, विशेषणविशेष्यभाव इति यावत् ; तस्मिन्वृत्तिर्वाक्यस्य यथा चैत्रस्य गौरिति । शास्त्रीयमेवोदाहरणान्तरं समुच्चिनोति--तथेति । प्रति- षिद्धो वस्तुनः पृथिव्यादेर्धर्मः परिस्पन्दो यस्य स तथोक्तः । कोऽसौ निष्क्रियः पुरुषः । न खलु सांख्यीये राद्धान्तेऽभावो नाम कश्चिदस्ति वस्तुधर्मो येन पुरुषो विशेष्येते त्यर्थः । क्वचित्पाठः प्रतिषिद्धा वस्तुधर्मा इति । तस्यार्थः- प्रतिषेधव्याप्ताः प्रति- षिद्धाः । न वस्तुधर्माणां तद्व्याप्यता भावाभावयोरसंबन्धादथ च तथा प्रती- तिरिति । लौकिकमुदाहरणमाह - तिष्ठति बाण इति । यथा हि पचति भिनत्तीत्यत्र -