पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. ८ ] पातञ्जलयोगसूत्रम् मूलवत्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ७ ॥ १२ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥ स कस्मान्न प्रमाणम् ? यतः प्रमाणेन बाध्यते । भूतार्थविषयत्वात्प्रमा- णस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा- द्विचन्द्रदर्शनं सद्वि- षयेणैकचन्द्र दर्शनेन बाध्यत इति । — सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा चैत्यं वन्देत स्वर्गकाम इति स आगम: प्लवते । नन्वेवं मन्वादीनामप्यागमः प्लवेत । न हि तेऽपि दृष्टानुमितार्थाः । यथाहु:- यः कश्चित्कस्यचिद्धमों मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ ( मनु० २।७ ) इत्यत आह–मूलवत्तरि विति । मूलवता हि तत्रेश्वरो दृष्टानुमितार्थं इत्यर्थः ॥ ७ ॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । विपर्यय इति लक्ष्यनिर्देशः। मिथ्या- ज्ञानमित्यादि लक्षणम् । यज्ज्ञानेप्रतिभासरूपं तद्रूपाप्रतिष्ठमेवातद्रूपप्रतिष्ठम् । यथाऽश्राद्धभोजीति, अतः संशयोऽपि संगृहीतः। एतावांस्तु विशेषः-तत्र ज्ञानारू- ढैवाप्रतिष्ठितता द्विचन्द्रादेस्तु बाधज्ञानेन। नन्वेवं विकल्पोऽपि तद्रूपाप्रतिष्ठानाद्वि- चारतो विपर्ययः प्रसज्येतेत्यत आह— मिथ्याज्ञानमिति । अनेन हि सर्वज- नीनानुभवसिद्धो बाध उक्तः । स चास्ति विपर्यये न तु विकल्पे । तेन व्यवहा रात् । पण्डितरूपाणामेव तु विचारयतां तत्र बाघबुद्धेरिति । चोदयति - स कस्मान्न प्रमाणम् । नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्व बाधनीयमपि तु पूर्वे- णैव प्रथममुपजातेनानुपजातविरोधिना परमिति भावः । परिहरति—यतः प्रमाणे- नेति । यत्र हि पूर्वापेक्षा परोत्पत्तिस्तत्रैवम् । इह तु स्वकारणादन्योन्यानपेक्षे ज्ञाने जायेते । तेनोत्तरस्य पूर्वमनुपमृद्योदयमनासादयतस्तदपबाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा । तस्य तदानीमप्रसक्तेः । तस्मादनुपजातविरोधिता बाध्य- त्वे हेतुरुपजातविरोधिता च बाधकत्वे । तस्माद्भूतार्थविषयत्वात्प्रमाणेनाप्रमा- णस्य बाधनं सिद्धम् । उदाहरणमाह - तत्र प्रमाणेनेति । अस्य कुत्सितत्वं हानाय दर्शयति- सेयं पञ्चेति । अविद्यासामान्यमवि- द्यास्मितादिषु पञ्चसु पर्वस्वित्यर्थः । अव्यक्तमहदहङ्कारपञ्चतन्मात्रेष्वष्टस्त्रनात्म- स्वात्मबुद्धिरविद्या तमः । एवं योगिनामष्टस्वणिमादिकेष्वैश्वर्येष्वश्रेयःसु श्रेयोब्रु- द्धिरष्टविधो मोहः पूर्वस्माजघन्यः स चास्मितोच्यते । तथा योगेनाष्टविधमै- श्वर्यमुपादाय सिद्धो भूत्वा दृष्टानुभविकाञ्शब्दादीन्दश विषयान्भोक्ष्य इत्येव