पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [पा. १सू. ७ विशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । बुद्धेः प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपाद- यिष्यामः । ११ अनुमेयस्य तुल्यजातीयेष्त्रनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्ते- र्गतिमञ्चन्द्र तारकं चैत्रवत्, विन्ध्यञ्चाप्राप्तिरगतिः । आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतु- रागमः । यस्याश्रद्धेयार्थी वक्ता न दृष्टानुमितार्थः स आगमः प्लवते, पौरुषेयश्चित्तवृत्तिबोध इति । ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम् ? न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्यत आह–अवि- शिष्ट इति । न हि पुरुषगतो बोधो जन्यते । अपि तु चैतन्यमेव बुद्धिवृत्त्यार्था- कारया तदाकारतामापद्यमानं फलम् । तच्च तथाभूतं बुद्धेरविशिष्टं बुद्ध यात्मकं, वृत्तिश्च बुद्धयात्मिकेति सामानाधिकरण्यायुक्तः प्रमाणफलभाव इत्यर्थः । एत- च्चोपपादयिष्याम इत्याह - प्रतिसंवेदीति । -> प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध यनुमानप्रभवसंबन्धदर्शनसमुत्थतया गमस्थानुमानजत्वादनुमितस्य चागमेनान्वाख्यानादागमात्प्रागनुमानं लक्षयति- अनुमेयस्येति । जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयस्तस्य तुल्यजातीयाः साध्य- धर्मसामान्येन समानार्थाः सपक्षास्तेष्वनुवृत्त इत्यनेन विरुद्धत्वमसाधारणत्वं च साधनधर्मस्य निराकरोति । भिन्नजातीया असपक्षास्ते च सपक्षादन्ये तद्विरु- द्धास्तदभावश्च तेभ्यो व्यावृत्तस्तदनेन साधारणानैकान्तिकत्वमपाकरोति। संब- ध्यत इति संबन्धो लिङ्गम् । अनेन पक्षधर्मतां दर्शयन्नसिद्धतां निवारयति । तद्विषया तन्निबन्धना। षिञ् बन्धने (धा. पा. ५१२) इत्यस्माद्विषयपदव्युत्पत्तेः। सामान्या- वधारणेति प्रत्यक्षविषयाद्वयवच्छिनति | संबन्धसंवेदनाधीनजमनुमानं विशे- षेषु संबन्धग्रहणाभावेन सामान्यमेव सुकरसंबन्धग्रहं गोचरयतीति । उदाहरण- माह—यथेति । चो हेत्वर्थः । बिन्ध्योऽगतिर्यतस्तस्मात्तस्याप्राप्तिरतो गतिनिवृत्तौ प्राप्ते र्निवृत्तेर्देशान्तरप्राप्तेर्गतिमञ्चन्द्रतारकं चैत्रवदिति सिद्धम् । आगमस्य वृत्ते- लक्षणमाह -आप्तेनेति । तत्त्वदर्शनकारुण्यकरणपाटवाभिसंबन्ध आतिस्तया सह वर्तत इत्याप्तस्तेन दृष्टोऽनुमितो वार्थः । श्रुतस्य पृथगनुपादानं तस्य दृष्टानुमि- तमूलत्वेन ताभ्यामेव चरितार्थत्वात् । आप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृ- चित्ते समुत्पादः स्वबोधसंक्रान्तिस्तस्यै, अर्थ उपदिश्यते श्रोतृहिताहितप्राप्ति- परिहारोपायतया प्रज्ञाप्यते । शेषं सुगमम् । यस्यागमस्याश्रद्धेयार्थो वक्ता, यथा यान्येव दश दाडिमानि तानि षडपूपा भविष्यन्तीति, न दृष्टानुमिताथ यथा