पातञ्जलयोगसूत्रम् पा १ सू. ७ ] चक्रमनिशमावर्तते। तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यव- तिष्ठते प्रलयं वा गच्छतीति ।। ५ ।। ताः क्लिष्टाचाक्लिष्टाच पञ्चधा वृत्तयः- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६ ॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशे- पात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलम- चक्रमनिशमावर्तते, आ निरोधसमाधेः । तदेवंभूतं चित्तं निरोधावस्थं संस्कारशेषं भूत्वात्मकल्पेनावतिष्ठत इत्यापाततः प्रलयं वा गच्छतीति परमार्थतः पिण्डीकृत्य सूत्रार्थमाह—ता इति । पञ्चधेत्यर्थकथनमात्रं न तु शब्दवृत्ति व्याख्यानम् । तयपः प्रकारेऽस्मरणात् ॥ ५ ॥ ताः स्वसंज्ञाभिरुद्दिशति—प्रमाणविपर्ययविकल्पनिद्रास्मृतयः । निर्देशे यथावचनं विग्रहः । चार्थे द्वंद्वः समास इतरेतरयोगे । यथाऽनित्याचचिदुःखाना- त्मसु नित्यश्शुचिसुखात्मख्यातिरविद्या (२५) इत्युक्तेऽपि न दिङ्मोहा- लातचक्रादिविभ्रमा व्युदस्यन्त एव मिहापि प्रमाणाद्य भिधानेऽपि वृत्त्यन्तरसद्भाव- शङ्का न व्युदस्येतेति तन्निरासाय वक्तव्यं पञ्चतय्य इति । एतावत्य एव वृत्तयो नापराः सन्तीति दर्शितं भवति ॥ ६ ॥ तत्र प्रमाणवृत्ति विभजन्सामान्यलक्षणमाह- प्रत्यक्षानुमानागमाः प्र माणानि । अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा। तत्करणं प्रमा- णम् । विभागवचनं च न्यूनाधिकसंख्याव्यवच्छेदार्थम् । तत्र सकलप्रमाणमूल- त्वात्प्रथमतः प्रत्यक्षं लक्षयति- इन्द्रियेति । अर्थस्येति समारोपितत्वं निषेधति । तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति । चित्तवर्तिनो ज्ञा- नाकारस्य बाह्यज्ञेय संबन्धं दर्शयति – बाह्य वस्तू परागादिति । व्यवहितस्य तदुपरागे हेतुमाह–इन्द्रियप्रणालिकयेति । सामान्यमात्रमर्थ इत्येके । विशेष एवेत्यन्ये । सामान्य विशेषतद्वत्तेत्यपरे वादिनः प्रतिपन्नाः । तन्नि रासायाह - सा मान्यविशेषात्मन इति । न तद्वत्ता किं तु तादात्म्यमर्थस्य | एतच्चैकान्तानभ्युप- गमाद् (३११३) इत्यत्र प्रतिपादयिष्यते। अनुमानागमविषयात्प्रत्यक्षविषयं व्यव च्छिनत्ति- विशेषावधारणप्रधानेति । यद्यपि सामान्यमपि प्रत्यक्षे प्रतिभासते तथापि विशेषं प्रत्युपसर्जनीभूतमित्यर्थः । एतच्च साक्षात्कारोपलक्षणपरम् । तथा च विवेकख्यातिरपि लक्षिता भवति । फलविप्रतिपत्ति निराकरोति-फलं
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११७
दिखावट