पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० पा. १ सू १८ ] पातञ्जलयोगसूत्रम् ह्लादः । एकात्मिका संविदस्मिता । तत्र प्रथमचतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्व एते सालम्बनाः । समाधयः ॥ १७ ॥ अथासंप्रज्ञातः समाधिः किमुपायः किंस्वभावो वेति-- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥ सर्ववृत्तिप्रत्यस्तमये संकारशेषो निरोधचित्तस्य समाधिरसंप्रज्ञातः । तस्य परं वैराग्यमुपायः। सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यास- पूर्व चित्तं निरालम्बनमभावप्राप्तमित्र भवतीत्येष निर्बीजः समाधिर- संप्रज्ञातः ॥ १८ ॥ । ह्लाद इति । ग्रहीतृविषयं संप्रज्ञातमाह- एकात्मिका संविदिति । अस्मिता- प्रभवानीन्द्रियाणि । तेनैषामस्मिता सूक्ष्म रूपम् । सा चात्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संवित् । तस्यां च ग्रहीतुरन्तर्भावाद्भवति ग्रहीतृविषयः संप्रज्ञात इति । चतुर्णामपरमध्यवान्तरविशेषमाह-तत्र प्रथम इति । कार्य कारणानु- प्रविष्टं न कारणं कार्येण । तदयं स्थूल आभोगः स्थूलसूक्ष्मेन्द्रियास्मिता कारणच- तुष्टयानुगतो भवति । उत्तरे तु त्रिद्वयेककारणकास्त्रि करूपा भवन्ति । असं प्रज्ञाताद्भिनत्ति सर्व एत इति ॥ १७ ॥ क्रमप्राप्तमसंप्रज्ञातमवतारयितुं पृच्छति-अथेति । विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः । पूर्वपदेनोपायकथनमुत्तराभ्यां च स्वरूपकथनम् । मध्यमं पदं विवृणोति-सर्ववृत्तीति । प्रथमं पदं व्याचष्टे - तस्य परमिति | विरामो वृत्तीनामभावस्तस्य प्रत्ययः कारणं तस्याभ्यासस्तदनुष्ठानं पौनःपुन्यं तदेव पूर्व यस्य स तथोक्तः । अथापरं वैराग्यनिरोधकारणं कस्मान्न भवतीत्यत आह - सालम्बनो हीति । कार्यसरूपं कारणं युज्यते न विरूपम् । विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्मान्निरालम्बनादेव ज्ञान- प्रसादमात्रात्तस्योत्पत्तिर्युक्ता । धर्ममेघसमाधिरेव हि नितान्तविगलितरजस्तमो- मलाद् बुद्धिसत्त्वादुपजातस्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागाच्च स्वरूपप्रतिष्ठः सन्निरालम्बनः संस्कारमात्र शेषस्य नि- रालम्बनस्य समाधेः कारणमुपपद्यते सारूप्यादिति । आलम्बनीकरणमाश्रयणम- भावप्राप्तमिव वृत्तिरूपकार्याकरणान्निवजो निरालम्बनः । अथ वा बीजं क्लेश- कर्माशयास्ते निष्क्रान्ता यस्मात्स तथा ॥ १८ ॥