पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतव्यासभाष्यसमेतम् [ पा. १सू, ४ स्वरूप प्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ॥ ३ ॥ कथं तर्हि ? दर्शितविषयत्वात्- वृत्तिसारूप्यमितरत्र ॥ ४ ॥ व्युत्थाने याश्चित्तवृत्तयस्तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम्-- रोपितं शान्तघोरमूढस्वरूपं निवर्तयति । पुरुषस्य हि चैतन्यं स्वरूपमनौपा- धिकं न तु बुद्धिबोधः शान्तादिरूपः । औपाधिको हि स स्फटिकस्येव स्वभाव- स्वच्छधवलस्य जपाकुसुमसंनिधानोपाधिररुणिमा । न चोपाधिनिवृत्तावुपहि- तनिवृत्तिरतिप्रसङ्गादिति भावः । स्वरूपस्य चाभेदेऽपि भेदं विकल्पयाधिकरण- भाव उक्त इति । अयमेवार्थो भाष्यकृता द्योत्यते--स्वरूपप्रतिष्ठेति । तदा- नीम् - निरोधावस्थायां न व्युत्थानावस्थायामिति भावः । स्यादेतद्-व्युत्थानाव- स्थायामप्रतिष्ठिता स्वरूपे चितिशक्तिर्निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी सा स्यात् । व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युत्थाननिरोधयोरविशेष इत्यत आह - व्युत्थानचित्ते त्विति । न जातु कूटस्थनित्या चितिशक्तिः स्वरूपाच्च्य- वते । तेन यथा निरोधे तथैव व्युत्थानेऽपि । न खलु शुक्तिकायाः प्रमाणविपर्य- यज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः । प्रतिपत्ता तु तथाभूतमप्यतथात्वेना- भिमन्यते । निरोधसमाधिमपेक्ष्य संप्रज्ञातोऽपि व्युत्थानमेवेति ॥ ३ ॥ सूत्रान्तरमवतारयितुं पृच्छति - कथं तहति । यदि तथा भवन्ती न तथा केन तर्हि प्रकारेण प्रकाशत इत्यर्थः । हेतुपदमध्याहृत्य सूत्रं पठति- दर्शितविषयत्वाद्वृत्तिसारूप्यमितरत्र | इतरत्र व्युत्थाने याश्चित्तवृत्तयः शान्तघोरमूढास्ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य स तथोक्तः । सारूप्यमित्यत्र सशब्द एकपर्यायः । एतदुक्तं भवति - जपाकुसुमस्फटिकयोरिव बुद्धिपुरुषयोः संनिधानादभेदग्रहे बुद्धिवृत्तीः पुरुषे समारोप्य शान्तोऽस्मि दुःखि तोऽस्मि मूढोऽस्मीत्यध्यवस्यति । यथा मलिने दर्पणतले प्रतिविम्बितं मुखं मलिन- मारोप्य शोचत्यात्मानं मलिनोऽस्मीति । यद्यपि पुरुष समारोपोऽपि शब्दादिविज्ञान- बद्बुद्धिवृत्तिर्यद्यपि च प्राकृतत्वेनाचिद्रूपतयानुभाव्यस्तथापि बुद्धेः पुरुषत्वमा- पादयन्पुरुषवृत्तिरिवानुभव इवावभासते । तथा चायमविपर्ययोऽप्यात्मा विपर्य- यवानिवाभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते । एतच्च चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्त्रबुद्धिसंवेदनम् (४/२२) इत्यत्र सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः (३(३५) इत्यत्र चोपपा- दयिष्यते । एतच्च मतान्तरेपि सिद्धमित्याह -तथा चेति । पञ्चशिखाचार्यस्य