पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ पा. १सू. ३ ] पातञ्जलयोगसूत्रम् गुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्संप्रज्ञायत इत्यसंप्रज्ञातः । द्विविधः स योगश्चित्त- वृत्तिनिरोध इति ॥ २ ॥ तदवस्थे चेतसि विषयाभावाद् बुद्धिबोधात्मा पुरुषः किस्वभाव इति - तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥ कारतामापद्येत, किं तु बुद्धिरेव विषयाकारेण परिणता सत्यतदाकारायै चिति- शक्त्यै विषयमादर्शयति । ततः पुरुषश्चेतयत इत्युच्यते । ननु विषयाकारां बुद्धिमनारूढायाश्चितिशक्तेः कथं विषयवेदनं, विषयारोहे वा कथं न तदाकारा- पत्तिरित्यत उक्तम् – अप्रतिसंक्रमेति । प्रतिसंक्रमः संचारः। स चितेर्नास्ती- न चिते- त्यर्थः। स एव कुतोऽस्था नास्तीत्यत उक्तम्- अपरिणामिनीति । स्त्रिविधोऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति, येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः । असंक्रान्ताया अपि विषयसंवेद- नमुपपादयिष्यते । तत्सिद्धं चितिशक्तिः शोभनेति । विवेकख्यातिस्तु बुद्धि- सत्त्वात्मिकाऽशोभनेत्युक्तम्-- अतश्चितिशक्तेर्विपरीतेति । यदा च विवेक- ख्यातिरपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानामिति भावः । तत- स्तद्धेतोर्निरोधमाधेरवतारो युज्यत इत्याह-अतस्तस्यामिति । ज्ञानप्रसाद- मात्रेण हि परेण वैराग्येण विवेकख्यातिमपि निरुणद्धीत्यर्थः । अथ निरुद्धा- शेषवृत्ति चित्तं कीदृशमित्यत आह - तदवस्थमित्यादि । स निरोधोऽवस्था यस्य तत्तथोक्तम् । निरोधस्य स्वरूपमाह–स निर्बीज इति । क्लेशसहितः कर्माशयी जात्यायुर्भोगबीजम् । तस्मान्निर्गत इति निर्बीजः । अस्यैव योगिजन- प्रसिद्धामन्वर्थसंज्ञामादर्शयति–न तत्रोति । उपसंहरति--द्विविधः स योग- श्चित्तवृत्तिनिरोध इति ॥ २ ॥ संप्रत्युत्तरसूत्रमवतारयितुं चोदयति तदवस्थे चेतसीति । किमाक्षेपे । तत्तदाकारपरिणतबुद्धिबोधात्मा खल्वयं पुरुषः सदानुभूयते न तु बुद्धिबोधरहि- तः । अतोऽस्य पुरुषस्य बुद्धिबोधः स्वभावः सवितुरिव प्रकाशः । न च संस्कारशेषे चेतसि सोऽस्ति। न च स्वभावमपहाय भावो वर्तितुमर्हतीति भावः । स्यादेतत्- संस्कारशेषामपि बुद्धि कस्मात्पुरुषो न बुध्यत इत्यत आह - विषयाभावा- दिति । न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः। विवेकख्याति- विषयभोगौ च पुरुषार्थी । तो च निरुद्धावस्थायां न स्त इति सिद्धो विषया- भाव इत्यर्थः।सूत्रेण परिहरति तदा द्रष्टुः स्वरूपेऽवस्थानम् । स्वरूप इत्या-