पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. १ सू. ५ ] पातञ्जलयोगसूत्रम् 'एकमेव दर्शनं ख्यातिरेव दर्शनम्' इति । चित्तमयस्कान्तमणिकल्पं संनि- धिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य स्वामिनः । तस्माञ्चित्तवृत्ति- बोधे पुरुषस्यानादिः संबन्धो हेतुः ॥ ४ ॥ ताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य- वृत्तय पञ्चतथ्यः क्लिष्टाऽक्लिष्टाः ॥ ५ ॥ सूत्रं 'एकमेव दर्शनं ख्यातिरेव दर्शनम्' इति । ननु कथमेकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेकविषया च वृत्तिः प्राकृततया जडत्वेनानु- भाव्या दर्शनं ततोऽन्यत्पुरुषस्य चैतन्यमनुभवो दर्शनमित्यत आह—ख्यातिरेव दर्शनमिति । उदयव्ययधर्मिणीं वृत्ति ख्याति लौकिकीमभिप्रेत्यैतदुक्तम्- एकेमेवेति । चैतन्यं तु पुरुषस्य स्वभावो न ख्याते: । तत्तु न लोकप्रत्यक्षगो- चरोऽपि त्वागमानुमानगोचर इत्यर्थः । तदनेन व्युत्थानावस्थायां मूलकारणम- विद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति । तमुपपादयन्नाह – चित्तं स्वं भवति पुरुषस्य स्वामिन इति संबन्धः । ननु चित्तजनितमुपकारं भजमानो हि चेतनश्चित्तस्येशिता । न चास्य तजनितोप- कारसंबन्धसंभवस्तदनुपकार्यत्वात्तत्संयोगतदुपकारभागित्वे परिणामप्रसादि- त्यत आह - अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेनेति । न पुरुषसंयुक्तं चित्तमपि तु तत्संनिहितम् । संनिधिश्च पुरुषस्य न देशतः कालतो वा तदसंयोगार्तिक तु योग्यतालक्षणः । अस्ति च पुरुषस्य भोक्तृशक्तिश्चित्तस्य भोग्यशक्तिः । तदुक्तम्-दृश्यत्वेनेति । शब्दाद्याकारपरिणतस्थ भोग्यत्वेने- त्यर्थः । भोगश्च यद्यपि शब्दाद्याकारा वृत्तिश्चित्तस्य धर्मस्तथापि चित्तचैतन्य- योरभेदसमारोपाद्वृत्तिसारूप्यात्पुरुषस्येत्युक्तम् । तस्माच्चित्तेनासंयोगेऽपि तज- नितोपकारभागिता च पुरुषस्थापरिणामिता चेति सिद्धम् । ननु स्वस्वामिसं- बन्धो भोगहेतुरविद्यानिमित्तोऽविद्या तु किंनिमित्ता। न खल्वनिमित्तं कार्यमुत्य- द्यते । यथाहुः- " “स्वप्नादिवदविद्यायाः प्रवृत्तिस्तस्य किंकृता ।' इति शङ्कामुपसंहारव्याजेनोद्धरति – तस्माच्चित्तवृत्तिबोधे । शान्तधोरमूढा- कारचित्तवृत्त्युपभोगेनाद्य विद्यानिमित्तत्वादनादिः संयोगो हेतुरविद्यावासनयोश्च सन्तानो बीजाङ्कुरसन्तानवदनादिरिति भावः ॥ ४ ॥ स्थादेतत्- पुरुषो हि शक्य उपदिश्यते । न च वृत्तिनिरोधो वृत्तीरविज्ञाय शक्यः । न च सहस्त्रेणापि पुरुषायुषैरलमिमाः कश्चित्परिगणयितुम् । असंख्याताश्च कथं निरोद्धव्या इत्याशङ्कय तासामियत्तास्वरूपप्रतिपादनपरं सूत्रमवतारयतिताः पुनर्निरोद्धव्या बहुत्वे सति चित्तस्य-वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ।