पराशरः–जनकं प्रति पराशरोपदेशः सांख्यशास्त्रीयो महाभारते दृश्यते ( शान्ति० २६० अ० )। अयं शिवस्य भगवतो भक्त इत्युक्तं महाभारते ( अनु- शासन० १८/४०-४५) । गणकतरङ्गिण्यामेकं वचनमस्ति, येन ज्ञायते यत् किमप्यध्यात्मशास्त्र पराशरो जग्रन्थेति – “तथा चाह पराशरः- मैत्रेयाय मयाऽप्युक्तं गुह्यमध्यात्मसंज्ञितम् । शास्त्रमाद्यं तदेवेह लोके यच्चातिदुर्लभम्” ॥ इति (ग्रन्थारम्मे ) । कोऽयं ग्रन्थ इति स्पष्टं न ज्ञायते । अयं 'वृद्ध' इति विशेषणेन विशेषितो बुद्धचरिते ( १२ अ० ) । अनेनास्य दीर्घजीविता सूचिता भवति । पराशरसगोत्रोयः किल पञ्चशिख इति शान्तिपर्वणि ( ३२० | २४ ) दृश्यते । पराशरविषयकमितिवृत्त सर्वथाऽनिर्णीतमेव । सनकादयः— सनक सनातन-सनन्दन- सनत्कुमारा अपि सांख्ययोगिन आसन्निति इतिहासपुराणतः सांख्ययोगग्रन्थतश्च ज्ञायते । सांख्यसूत्रे ( ६ । ६६) सनन्दनमतमुक्तम् । सनकमतमग्निपुराणे ( ३८२।१० ) दृश्यते । अत्र ( ३८२ | ३-१० ) कपिल-पञ्चशिख-देवलादीनामपि मतान्युक्तानि । सनकवचनमुदाजहार ( मनु० १।५६ टीका) । वोढुनामकस्याचार्यस्यापि वचनादिकं न क्वापि लभ्यते । स्मयते च तन्नाम कपिलादिभिः सह पुराणेषु । कुल्लूकोऽपि
- ."
देवलः— अयं सांख्यविद् धर्मसूत्रकार इति शंकरोऽपि बभाषे– “देवल- प्रभृतिभिश्च कैश्चिद् धर्मसूत्रका रै: " ( १ | ४ | २८ ) इति । एतेन प्रतीयते यत् हारीत-गौतमापस्तम्बादयो धर्मसूत्रकाराः सांख्ययोगप्रवक्तार आसन् इति । एतेषां धर्मसूत्रकाराणां विरुद्धाचरणं कृत्वा शंकरः स्वसिद्धान्तस्य अवैदिकत्वमेव ख्यापयति । देवलादयः शंकरापेक्षया योग विद्वत्तमा वेदवित्तमाश्च । अतः शंकरकृतदेवलादिमतखण्डनं वैयात्यप्ररोचितमेवेति मन्तव्यम् । देवल- प्रशंसा गीतायामपि ( १० । १३ ) दृश्यते । कोऽयं देवल इति विचार्यों विषयः । प्रत्यूषवसुपुत्रो देवलः श्रूयते, अपरश्च धौम्याग्रजः। नात्रैतद्विचारस्य प्रयोजनम् । देवलस्य बहूनि सांख्ययोगप्रतिपादकानि वचनानि कृत्यकल्पतरु मोक्षकाण्डे स्मृतानि ( पृ० २१, ४६ ५०, ५६, १००-१०१, १०६, १२४, १६५, १६८, १७०, १७२, १७४, १८१, २१२, २१६ ) । तथैवापरार्कटीकायाम पि एतन्मतम् दृश्यते ( याज्ञ० प्रायश्चित्ताध्याय श्लो० १०६) । योगभाष्य एतद्- वचनच्छायावलोक्यते । दे कथनम तन्त्राण त्वम्" बन्धः, लक्षण घातः FREEEEEEE विवृता