( ८९ ) याज्ञवल्क्यः- -अयं सांख्ययोगाचार्य इति शान्तिपर्वतो ज्ञायते । विदेहराजं जनकं प्रत्यनेन यदुपदिष्टं तदत्र ( ३१० - ३१८ अ० ) विद्यते । एष्वभ्यायेषु सांख्ययोगविद्या न्यायबहुला प्रोक्ता । वृहदारण्यकेऽपि याज्ञवल्क्य-दृष्टिस्तक- प्रधानेति शंकर आह—“तर्कप्रधानं याज्ञवल्कीयं काण्डमिति" (वृहदा० भाष्य ४/५/१; ३।१।१ अपि द्र०) । अयमेव विश्वामित्रस्य ब्रह्मवादी पुत्र इति केचित् । व्यासभाष्ये याज्ञवल्क्यप्रकरणगतश्लोकानां छाया क्वचिद् दृश्यते । कचिच्च दृष्टि- मेदमाश्रित्य नवीनाः पारिभाषिकाः शब्दाः कृताः, यथा 'सविशेषेति' शब्दः (३१०।१४) । अयं याज्ञवल्क्य एव शतपथकार इति शान्तिपर्वतो विज्ञायते (३१८।११) । अनेनैव याज्ञवल्क्यस्मृतिरपि प्रणीतेति प्रसिद्धिः । याज्ञवल्क्योपदेशं गृहीत्वा केनचिदियं स्मृतिः प्रणीतेति कथनमेव युक्तिसहम्, स्मृतिगतमात्मज्ञानवर्णनं सर्वथा सांख्ययोगाश्रितमिति दृश्यते । योगियाज्ञवल्क्यग्रन्थोऽप्येतत्संबद्ध एव। स च ग्रन्थः पातञ्जलाश्रितो, यतोऽत्र प्राणायामविवरणम् ( ८ | १६ - २१ ) ईश्वरलक्षणं ( २।४३-४४) च पातञ्जलानुसारि । ब्रह्मोक्तयाज्ञवल्क्यसंहिता- नामकोऽपि ग्रन्थो विद्यते, बृहद्योगियाज्ञवल्क्यग्रन्थोऽपि क्वचन श्रूयते । कूर्मपुराणे याज्ञवल्क्यकृतयोगशास्त्रं स्मृतम् (१।२५।४४ ) । योगीश्वरं याज्ञवल्क्यमधिकृत्य पुराणे बहूक्तम् । याज्ञवल्क्यः खलु इक्ष्वाकु- वंशीय-हिरण्यनाभतो योगविद्यां प्राप्तवानिति ( विष्णु० ४।४।८)। भागवतेऽ पि (६।१२।३-४ ) इत्थमेव दृश्यते । ब्रह्माण्डपुराणेऽपि ( २ | ६३ | २०७- २०८ ) घटनेयं स्मृता । हिरण्यनाभोऽयं सामशाखाकारः, कोसलदेशीयश्च । यदि इक्ष्वाकु कालो निर्णीतः स्यात्, तर्हि याज्ञवल्क्य-कालोऽपि निर्णीतो भवेत् । वसिष्ठः – अस्मै पञ्चशिखः सांख्यज्ञानमाचख्य इति युक्तिदीपिकायामुक्तम् ( पृ० १७४) । वसिष्ठो विदेहराजं करालजनकमुपदिष्टवानिति शान्ति- पर्वण्युक्तम् ( ३०२-३०६ अ० ) । अत्र सांख्ययोग - विद्याया एव वर्णनं दृश्यते । कोऽयं वसिष्ठ इति न ज्ञायते । पराशरपितामह एवायमिति कथयितुं शक्यते । वसिष्ठप्रोक्तं धर्मसूत्रं प्रचलति, तच्च सांख्ययोगाविरोधीति दृश्यते । एतत्प्रोक्तं साधनं सर्वथा सांख्ययोगानुमोदितम् । यतीनां कृते सर्वभूताभय- प्रदानं साघनत्वेनात्रोक्तम् ( १० अ० ) । तदिदं साधनं योगभाष्येऽपि (२।३३)स्वीकृतम्। अयं हिरण्यगर्भतो योगमाप्तवानिति (शान्ति० ३०८।४५) । भृगुः – ब्रह्माण्डोत्पत्तिविषयक एतत्कृत उपदेशो दृश्यते शान्तिपर्वणि ( १८२ अ० ) । उपदेशोऽयं सर्वथा सांख्यानुगत एव । COL
पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०२
दिखावट