पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८८ ) महाभारते ( शान्ति० २७८ अ० ) हारीतमतं वर्णितम्, तच्च सर्वथा सांख्ययोगानुसारीति दृश्यते । मोक्षयानशब्दो हारीतेन प्रयुक्तः ( २७८ | २१), मन्ये बौद्धसम्प्रदायप्रसिद्धौ हीनयानमहायानशब्दावेतदनुकरण- पराविति ।' जैगीषव्यः–अयमतिप्रसिद्ध सांख्ययोगाचार्यः । बहुषु पुराणेषु योगि- श्रेष्ठरूपेण शैवयोगिरूपेण चायं स्मृत: २ । महाभारतेऽपि बहुधोलिखितोऽयम् । आदित्यतीर्थमहिमप्रसङ्गेऽस्य चरितं शल्यपर्वण्युक्तम् ( ५० अ० ) । असित- देवलं प्रति समत्वबुद्धिविषयकोऽस्योपदेशः शान्तिपर्वणि दृश्यते (२२६।७- २५ ) | आवट्यं प्रत्यस्य पूर्वजन्मानुभवकैवल्यसुखविषयक उपदेशो योग- भाष्ये ( ३११८) विद्यते । शिवमहिमविषयकोऽस्थानुभवोऽनुशासनपर्वणि ( १८ । ३७) विवृतः । प्रत्याहारविषयकमेकमस्य वचनं योगभाष्ये ( २।५५ ) दृश्यते । धारणा- विषयकं किमपि शास्त्रमयम् उपनिबबन्धेति ज्ञायते 3 ( न्या. वा. ता. टी. ३।२ ४२ ) | अग्निपुराणेऽस्य मतमुद्धृतम्- “कर्तव्यमिति यत्कर्म ऋग्यजुःसामसंज्ञितम् । कुरुते श्रेयसेऽसंगाजैगीषव्येन गीयते” ॥ इति ( ३८२८) बहुषु हठयोगादिग्रन्थेषु आचार्योऽयं स्मृतः । आह च शाक्तो भास्कररायः- “जैगीषव्यादयः शिवयोगित्वेन ये व्यवह्रियन्ते”, इति ( भावनोपनिषद्व्याख्या ३४), अतो गम्यते संप्रदायान्तरेष्वप्यस्य प्रसिद्धिरासीदिति । १. बौद्धशब्दार्थबहुलः प्रसङ्गो महाभारते क्वचिद् दृश्यते- 'अविद्या कमंतृष्णा च केचिदाहुः पुनभँवे, कारणं दोषमोहौ तु शेषाणां तु निषेवणम्' इति ( द्र० शान्ति • २१८/३२, ३३-३४ अपि ) । नैतादृशानि स्थल नि बुद्धतः परभवाणीति मन्तब्यम्, इदमेव ज्ञानं संकोणरूपेण बौद्ध प्रचारितमित्येव । २. लिङ्ग ११९२१५२-५३, वायु० २३११३८; ७२११८, मत्स्य ० १५०/५७- ५८, काशीखण्ड ६३ अ०; कुमारिकाखण्ड १२/१५२; कूर्म० १९४८ अ०; लिङ्ग० १|७|३१ अन्यत्र च । ३. धारणाविषये पुराणादिषु योगग्रन्थेषु बौद्धादिशास्त्रेषु च यद् विवरणमस्ति, तदाश्रित्य 'धारणासूत्रम्' इति नामधेयो ग्रन्थोऽस्माभिः प्रणीतः । ४. द्र० हठयोगप्रदीपिकाज्योत्स्नाटीका (पृ० १७५ अड्यार संस्क०), शिवान- न्दसरस्वतीकृत-योगचन्तामणिः (पृ. १७६, १८६), बुद्धचरितकाव्यं (१२/६७) च । 5x1844 ~ स' प्र ४ व्य ( 2010 Apr 1 10 10 w t 1 ३ 1 1