सामग्री पर जाएँ

पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ८७ ) प्रदीपेऽपि श्लोकस्यास्य पूर्वार्ध उद्धृतः (४ | १ | २ ) | इदं प्रतीयते यद् वार्षगण्यः षष्टितन्त्रप्रवचनभूतं किमपि शास्त्रं रचयामास । अन्यत्रापि योगभाष्ये ( वार्षगण्यनामाभावेऽपि ) वार्षगण्यमतमुदाहृतम् । तथाहि - ३ | १३ भाष्ये 'तदेतद्' इत्यादिर्य: सन्दर्भों विद्यते, स वार्षगणानां मतमिति युक्तिदीपिका- कारः, ( पृ० ६७ ) । वार्षगणानां यानि मतानि युक्तिदीपिकायां संगृहीतानि, तेषां सादृश्यं ( शब्दतोऽर्थतश्च ) व्यास-भाष्ये दृश्यते । वार्षगणमत-मूलभूता- चार्यः खलु वार्षगण्य एव; यतोहि वार्षगणा वार्षगण्यशिष्या एवेति । २।१५, ३।१३ भाष्यधृतं रूपातिशयेत्यादिवाक्यमपि अस्याचार्यस्यैवेति युक्तिदीपि- कातो ज्ञायते (पृ. ७२), इदं पञ्चशिखवाक्यमित्यन्ये । पञ्चशिखोक्कशास्त्रमाथि- त्यैव वार्षगण्यः स्वशास्त्रं प्रोक्तवानतः पाञ्चशिखीयानुपूर्वी तद्ग्रन्थेऽवलोक्यत इत्येवात्र वचनीयम् । 'प्रोक्त'- रीत्या ये ग्रन्था रचितास्तेषु सर्वेषु इत्थमेव दृश्यते । न्यायवार्त्तिकतात्पर्यटीकायां ( १।१।४) वार्षगण्यकृतं प्रत्यक्षलक्षणं स्मृतम् । षष्टितन्त्रे प्रमाणचर्चा पुष्कलाऽसीदिति विज्ञायते, अतः तद्भवेषु ग्रन्थेष्वपीयं चर्चाऽरब्धा । मननाथं सांखयविद्येतिकृत्वा प्रमाणचर्चाऽत्रावश्यं- भावीति विज्ञेयम् । वार्षगण्यः खलु सामशाखाप्रवक्ता (वै. वा. इ. भाग १, पृ. ३२० ) ( शान्ति- पर्वणि (३१८/५६ ) आचार्योऽयं स्मृतः सांख्याचार्यरूपेण । वार्षगण्यविष O. D. S.S.T. ( पृ० १३५-१४१), सा० द० इ० ( पृ० ५०६-५१२ ) ग्रन्थश्च द्रष्टव्यः । हारीत :—अस्यैकं वचनम् ( अहिंसा नाम सर्वभूतेषु अनभिद्रोहः ) योग- भाष्येऽनुकृतम् ( २।३० ) । कृत्यकल्पतरु मोक्षकाण्डे ( वानप्रस्थ -यतिधर्म- प्रसङ्गे ) बहूनि हारीतवचनान्युद्धृतानि ( पृ० २२, २६, ४२, ५२, ५३, ६०, ८१, ८२, १७४) । कृत्यकल्पतरुकार आह-“सांख्ययोगयोर्भिक्षोर्ब्रह्मलयेच्छा- प्राप्तिवचनान्तरं हारीत" इति ( पृ० ४२ ), एतेन प्रतीयते यद् ग्रन्थकारो हारी- तग्रन्थं ददर्शेति, यद् वा परम्परायां हारीतकृतिरशंतः सुरक्षितासीदिति । भिक्षुचर्या सांख्ययोगानुसारिणी प्रोक्तात्रेति दृश्यते ( पृ० ५३ ) । योगसूत्रे यो वितर्कप्रसङ्गोऽस्ति ( २ | ३३ ३४ ), सोऽप्यत्र विचारितः ( पृ ०८२ ) । धारणाऽपि विशदीकृता-'मनसोऽधारणमन्तःशरीरे हृदि ललाटे परं ब्रह्मात्म- ज्योतिरादित्य महीनभःसु जलभाजनवत् मनसस्त्वेकधारणाद् धारणा" ( पृ० १७४ ) इति ।