पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ९१ ) देवलवचांसि सांख्ययोगप्रतिपादकानीति दृश्यन्ते । तत्त्वसमाससूत्रवत् कथनमत्र दृश्यते । प्रागपि सांख्ययोगप्रतिपादकानि विशालानि गम्भीराणि तन्त्राण्यासन्निति कथितम् । दशमूलिकार्थप्रतिपादकः श्लोकः ( अस्तित्वमेक- त्वम् ) अत्रास्ति । भूतादयः, तेषां सृष्टिक्रमश्चापि कथितः । वैराग्याभ्यासो बन्धः, पुरुषार्थो, दीक्षितकृत्यं, भिक्षुचर्या, प्राणायामादिसाधनानि उद्घात- लक्षणं ( प्राणापानब्यानोदानसमानानां सकृदुद्गमनं मूर्धानमाहत्य निवृत्तिश्चोद्- घातः ), प्रत्याहार-धारणा-ध्यान-लक्षणानि, विभूतय, इत्येते विषया देवळवचने विवृताः । दुःखात्यन्ताभाव एवापवर्ग इति देवलमतमासीदिति विज्ञायते । ( मोक्षकाण्डे पृ० ७ ) । द्रष्टुः स्वरूपावस्थानं यद्यपि सत्त्वादिगुणहीनं, तथापि तत् परमसुखेति पदेनापि देवल उक्तवान् ( पृ० ७), नेदं सुखं बौद्धप्रत्यय- विशेषात्मकं, विपर्यस्तदृष्टिभिः पुनः सुखात्मको मोक्ष इत्यभ्युगम्यते । गुण- संबन्धाभावान्न तत्र सुखलेशोऽपि । असितः— देवलेन सहास्यापि नाम प्रायेण स्मयते। शिवमहिमविषयकोऽ- स्यानुभवोऽनुशासनपर्वण्युक्तम् ( १८/१७-१८) । गीतायामयं स्मृतः ( १० | १३) । अयं देवलस्य पिता । नारदकृतसृष्टिविषयकप्रश्ना अनेन समाहिताः ( शान्ति० २७५ | ४-३९) । समाधानमिदं सांख्यानुसारीति । दृष्टिमेदमाश्रित्या नेनाष्टौ ज्ञानेन्द्रियाणीत्युक्तम् ( २७५ | १८ ) | नारदः – वसिष्ठोक्ता सांख्ययोगविद्या नारदतो भीष्मेण प्राप्तेत्युक्तं शान्तिपर्वणि (३०८/४४), अतोऽस्य योगविद्यावेत्तृत्वे संशय एव नास्ति । नारदप्रोता उपदेशा ये भारतादिषूपलभ्यन्ते, ततोऽस्य योगविद्याचार्यत्वं सिद्ध्यति । शुकदेवं प्रति ज्ञान-वैराग्यप्रतिपादका एतदुपदेशाः सर्वथा योगानुसारिण एव ( शान्ति० ३२६- ३३१ अ० ) । जनकः– जनकवंशीया राजान आत्मज्ञानोपासकाः प्रायेणासन्नित्युक्तम् (विष्णु० ४।५।१४) । योगाचार्यरूपेण नैषां प्रसिद्धिरपि तु योगानुशासना- भ्यासिरूपेणैव । केचन जनकवंशीयाश्च आत्मशानिनोऽभूवन्निति महाभारताद् विज्ञायते । क्वचिच्च जनककर्तृकाः सांख्ययोगविषयका उपदेशा अपि महाभारते संकलिताः, यथा—माण्डव्यं प्रति जनकोपदेशः ( शान्ति० २७६ अ० ), शुकं प्रति जनकोपदेशश्च ( शान्ति० ३२६ | २२ - ५१ ) । जनकः पञ्चशिखाद् ज्ञानं प्राप इति युक्तिदीपिकातोऽवगम्यते ( पृ० १७५ ) | जनदेव-धर्मध्वज- करालादयो जनकवंशीयाः पञ्चशिखादिभिराचार्यैरुपदिष्टा इति विज्ञायते ( द्र० शान्तिपर्व ) विष्णुपुराणेऽपि केशिध्वज-खाण्डिक्यजनकसंवादोऽस्ति ( ६ | ६-७ अ० ) । अत्रत्यं ज्ञानमपि सांख्ययोगानुगतमेव, अतो ज्ञानप्रवक्ता