पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० २४]
९५
पातञ्जलयोगसूत्राणि ।


* विपर्ययज्ञानवासनेत्यर्थः । विपर्ययज्ञानवासनावासिता च
न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति साधिकारा पुनराव-
तते । सा तु पुरुषख्यातिपर्यवसांनां कार्यनिष्ठां पामोति, चरि-
ताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते । .
__ अब कश्चित्पण्डकोपाख्यानेनोद्घाटयति-मुग्धया भार्ययाऽ-
भिधीयते--पण्डकाऽऽर्यपुत्र, अपत्यवती मे भगिनी किमर्थ
नाम नाहमिति, स तामाह-मृतस्तेऽहमपत्यमुत्पादयिष्यामीति ।
तथेदं विद्यमानं ज्ञानं चित्तनिवृत्ति न करोति, विनष्टं करि-
प्यतीति का प्रत्याशा । तत्राऽऽचार्यदेशीयो वक्ति-ननु बुद्धि-
निवृत्तिरेव मोक्षोऽदर्शनकारणाभावाबुद्धिनिवृत्तिः । तच्चादर्शनं

संयोगभेदस्य हेतुरित्यत आह–विपर्ययज्ञानवासनेति । सर्गान्तरीयाया अविद्यायाः
स्वचित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना तद्वासनाबासितं च प्रधान तत्त,
रपुरुषसंयोगिनी तादृशीमेव बुद्धिं सजति । एवं पूर्वपूर्वसर्गचित्यनादित्वाददोषः । अत एव
प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्याह-विपर्ययज्ञानेति । यदा पुरुषख्याति कार्यनिष्ठां
प्राप्ता तदा विपर्ययज्ञानवासनाया बन्धकारणस्याभावान्न पुनरावर्तत इत्याह-सा विति ।
अत्र कश्चिन्न स्तिकः कैवल्यं पण्डकोपाख्यानेनोपहसति । पण्डकोपाख्यानमाह-
मुग्धयेति । किमर्थमित्यर्थशब्दो निमित्तमुपलक्षयति प्रयोजनस्यापि निमित्तत्वात् । पण्ड-
कोपाख्यानेन साम्यमापादयति---तथेदं विद्यमानं गुणपुरुषान्यताज्ञानं चित्तनिवृत्ति
करोति, परवैराग्येण ज्ञानप्रसादमात्रेण ससंस्कारं निरुद्धं विनष्टं करिष्यतीति का
प्रत्याशा । यस्मिन्सत्येव यद्भवति तत्तस्य कार्यम् । न तु यस्मिन्नसतीति भावः । अत्रै
कदेशिमतेन परिहारमाह - तत्रेति । ईपदपरिसमाप्त आचार्य आचार्यदेशीयः । आचा-
यस्तु वायुप्रोक्ते कृतलक्षणः-

" आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते " [वा० पु०५९।३ ] इति ।

भोगविवेकख्यातिरूपपरिणतबुद्धिनिवृत्तिरेव मोक्षः । न च बुद्धिस्वरूपनिवृत्तिः ।
सा च धर्ममेघान्तविवेकख्यातिप्रतिष्ठाया अनन्तरमेव भवति सत्यपि वुद्धिस्वरूपमात्रा.

वस्थान इत्यर्थः । एतदेव स्फोरयति-अदर्शनस्य बन्धकारणस्याभावाबुद्धिनिवृत्तिः ।


  • एतस्मात्याक्, ङ. पुस्तके 'बुद्धिसंयोगस्य हेतुः । इति पाठो विद्यते स प्रामादिकः। .

१ ग. घ. ड. च.°ता न । २ ड. "रुषान्यताख्या । ३ ग. घ. ड. नाना का। ४ ख.
न. तत्पु । ५ क. पोक्तलक्ष ।