पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
[ २ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि


बन्धकारणं दर्शनानिवर्तते । तत्र चित्तनिवृत्तिरेव मोक्षः, किम- र्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥

 हेयं दुःखं हेयकारणं च संयोगाख्यं सनिमित्तमुक्तमतः परं

हानं वक्तव्यम्--

         तदभावात्संयोगाभावो हानं
         तशेः कैवल्यम् ॥ २५ ॥
तस्यादर्शनस्याभावामुद्धिपुरुपसंयोगाभाव आत्यन्तिको व-

धनोपरम इत्यर्थः। एतद्धानम् । तदृशेः कैवल्यं पुरुषस्यामिश्री- भावः पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोप रमो हानं, तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५॥

अथ हानस्य कः प्राप्त्युपाय इति-
  विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥

तशादर्शनं बन्धकारणं दर्शनानिवर्तते । दर्शननिवृत्तिस्तु परवैराग्यसाध्या । सत्यपि बुद्धिस्वरूपावस्थाने मोक्ष इति भावः । एकदेशिमतमुपन्यस्य स्वमतमाह-तत्र चित्त. निवृत्तिरेव मोक्षः । ननुक्तं दर्शने निवृत्तेऽचिराच्चित्तस्वरूपनिवृत्तिर्भवतीति कथं दर्श. नकार्येत्यत आह--किमर्थमस्थाने मतिविभ्रम इति । अयमभिसंधिः-यदि दर्शनस्य साक्षाञ्चित्तनिवृत्तौ कारणभावमङ्गीकुर्वीमहि तत एवमुपालभ्येमहि । किं तु विवेकदर्शनं प्रकर्षकाष्टां प्राप्तं निरोधसमाधिभावनाप्रकर्षक्रमेण चित्तनिवृत्तिमत्पुरुषस्वरूपावस्थानोपयो. गीत्यातिष्ठामहे तत्कथमुपालभ्येमहीति ॥ २४ ॥

  तदेवं व्यूहद्वयमुक्त्वा तृतीयव्यूहाभिधानाय सूत्रमवतारयति-हेयं दुःखमिति । तद-

भावात्संयोगाभावो हानं तदृशेः कैवल्यम् । व्याचष्टे--तस्येति । अस्ति हि महा- प्रलयेऽपि संयोगाभावोऽत उक्तमात्यन्तिक इति । दुःखोपरमो हानमिति पुरुषार्थता दर्शिता । शेषमतिरोहितम् ॥ २५ ॥ __ हानोपायलक्षणं चतुर्थ व्यूहमाख्यातुं सूत्रमवतारयति-अथेति । विवेकख्याति- रविप्लवा हानोपायः । आगमानुमानाभ्यामपि विवेकल्यातिरस्ति । न चासो व्युत्थानं तत्संस्कारं वा निवर्तयति तद्वतोऽपि तदनुवृत्तरिति तन्निवृत्त्यर्थमविप्लवेति । विप्लवो मिथ्याज्ञानं तदहिता । एतदुक्तं भवति--श्रुतमयेन ज्ञानेन विवेकं गृहीत्वा युक्ति- मयेन च व्यवस्थाप्य दीर्घकालनैरन्तर्यसत्कारासेविताया भावनायाः प्रकर्षपर्यन्तं

             १ ख. स. हितार्थम् ।