पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

९४ · वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-- क्क् ·

तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति । तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं
पुरुषधर्मत्वेनेवादर्शनमवभासते । दर्शनं ज्ञानमेवादर्शनमिति केचिदभिदधति । इत्येते शास्त्रगता विकल्पाः। तत्र विकल्पबहुत्वमेतत्सर्वपुरुषाणां गुंणानां संयोगे साधारणविषयम् ॥ २३ ॥
यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः- .

तस्य हेतुरविद्या ॥ २४ ॥ स्यादेतन्मृष्यामहे दृश्यस्येति, तस्य सर्वशक्त्याश्रयत्वान्न द्रष्टुरति पुनर्मृष्यामः । न हि तदाधारा ज्ञानशक्तिस्तत्र ज्ञानस्यासमवायादन्यथा परिणामापत्तिरित्यत आह--तत्रेदमिति । भवतु दृश्यात्मकं तथाऽपि तस्य जडत्वेन तद्गतशक्तिकार्यं दर्शनमपि जडमिति न शक्यं तद्धर्मत्वेन विज्ञातुं जडस्य स्वयमप्रकाशत्वादतो दृशेरात्मनः प्रत्ययं चैतन्यच्छायापत्तिमपेक्ष्य दर्शनं तद्धर्मत्वेन भवति ज्ञायते विषयेण विषयिणो लक्षणात् । नन्वेतावताऽपि दृश्यधर्मत्वमस्य ज्ञानस्य भवति न तु पुरुषधर्मत्वमपीत्यत आह-तथा पुरुषस्येति । सत्यं पुरुषस्यानात्मभूतमेव तथाऽपि दृश्यबुद्धिसत्त्वस्य यः प्रत्ययश्चैतन्यच्छायापत्तिस्तमपेक्ष्य पुरुषधर्मत्वेनेव न तु पुरुषधर्मत्वेन । एतदुक्तं भवति–चैतन्यबिम्बोग्राहितया बुद्धिचैत- न्ययोरभेदाइद्रिधर्माश्चैतन्यधर्मा इव चकासतीति । अष्टमं विकल्पमाह-दर्शनं ज्ञानमेव शब्दादीनामदर्शनं न तु सत्वपुरुषान्यताया इति केचित् । यथा चक्षू रूपे प्रमाणमपि रसादावप्रमाणमुच्यते । एतदुक्तं भवति-सुखद्याकारशब्दादिज्ञानानि स्वसिद्धयनुगुणतया द्रष्टृदृश्यसंयोगमाक्षिपन्तीति । तदेवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुमितरेषां विकल्पानां सांख्यशास्त्रगतानां सर्वपुरुषसाधारण्येन भोगवैचित्र्याभावप्रसङ्गेन दूषयति--इत्येते शास्त्र. गता इति ॥ २३॥ ___ चतुर्थ विकल्प निर्धारयितुं सूत्रमवतारयति--यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोग इति । प्रतीपमञ्चति प्राप्नोतीति प्रत्यगसाधारणस्तु संयोग एकैकस्य पुरुषस्यकैकया बुद्धया वैचित्र्यहेतुः । सूत्रं पठति--तस्येति । नन्वविद्या विपर्ययज्ञानं तस्य भोगापवर्गयोरिव स्वबुद्धिसंयोगो हेतुः । असंयुक्तायां बुद्धौ तदनुत्पत्तेस्तत्कथमविद्या । १३. ह. त्यापेक्ष्य द" । च. 'त्ययमपेक्ष्याद । २ छ. पेक्षम । ३ घ च. 'त्ययमपेक्ष्य पु। ४ ख. त्यया । ५ ग. ग. ह. छ. गुगसं° । ६ ख. 'वीति शा। ७. ति विज्ञान ८ ख. ज. तदतो भ' । ९ ज. प्रत्यश्च । म. प्रति प्रत्यश्च ।