पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
पातञ्जलयोगसूत्राणि ।


राभिव्यक्तिः । यत्रेदमुक्तं प्रधानं स्थित्यैव वर्तमानं विकारा- करणादप्रधानं स्यात् । {{center=तथा गत्यैव वर्तमानं विकारनित्यत्वादप्रधानं स्यात् । उभ- यथा चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथा । कारणान्त- 'रेष्वपि कल्पितेष्वेव समानश्चर्चः । दर्शनशक्तिरेवादर्शनमित्येके, "प्रधानस्याऽऽत्मख्यापनार्था प्रवृत्तिः" इतिश्रुतेः।

सर्वबोध्यबोधसमर्थः प्राक्मवृत्तेः पुरुषो न पश्यति सर्वकार्य- करणसमर्थं दृश्यं तदा न दृश्यत इति । उभयस्याप्यदर्शनं धर्म इत्येके। |}}  

स्याभिव्यक्तिः कार्योन्मुखत्वम् । तदुभयसंस्कारसद्भावे मतान्तरानुमतिमाह-यत्रेदमुक्त- भैकान्तिकत्वं व्यासेधद्भिः, प्रधीयते जन्यते विकारजातमनेनेति प्रधानं तच्चेस्थित्यैव वर्तेत न कदाचिद्गत्या ततो विकाराकरणान्न प्रधीयते तेन किंचिदित्यप्रधानं स्यात् । अथ गत्यैव वःत न कदाचिदपि स्थित्या तत्राऽऽह-तथा गत्यैवेति । कचि. पाठः " स्थित्यै गत्यै " इति । तादर्थ्य चतुर्थी, एवकारश्च द्रष्टव्यः । स्थित्यै चेन वर्तेत न कचिद्विकारो विनश्येत् । तथा च भावस्य सतोऽविनाशिनो नोत्पत्तिरपीति विका- रत्वादेव च्यवेत । एवं च न प्रधीयतेऽत्र किंचिदित्यप्रधानं स्यात्तदभयथा स्थित्या गत्या चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथैकान्ताभ्युपगमे । न केवलं प्रधाने कारणान्तरेष्वपि परब्रह्मतन्मायापरमाण्वादिषु कल्पितेषु समानश्च! विचारः । तान्यपि हि स्थित्यव वर्तमानानि विकाराकरणादकारणानि स्युः, गत्यैव वर्तमानानि विकारनित्य- वादकारणानि स्युरिति च । पर्युदास एव षष्ठं विकल्पमाह -दर्शनशक्तिरेवेति । यथा प्रजापतिते नेक्षेतोद्यन्तमादित्यमित्यनीक्षणप्रत्यासन्नः संकल्पो गृह्यत एवमिहापि दर्शन- निषेधे तत्प्रत्यासन्ना तन्मूला शक्तिरुच्यते । सा च दर्शनं भोगादिलक्षणं प्रसोतुं द्रष्टार दृश्येन योजयतीति । अत्रैव श्रुतिमाह-प्रधानस्येति ।


स्यादेतत् । आत्मख्यापनार्थ प्रधानं प्रवर्तत इति श्रुतिर।ह न त्वात्मदर्शनशक्तेः प्रव- तत इत्यत आह-सर्वबौथ्यबोधसमर्थ इति । प्राक्प्रवृत्तेः प्रधानस्य नाऽऽमख्यापन- मात्र प्रवृत्तौ प्रयोजकमसामये तदयोगात्तस्मात्सामय प्रवृत्तेः प्रयोजकमिति श्रुत्याऽर्था. दुक्तमित्यर्थः । दर्शनशक्तिः प्रधानाश्रयेत्यङ्गीकृत्य षष्ठः कल्पः । इमामेवोभयाश्रयामास्थाय

सप्तमं विकल्पमाह ---उभयस्य पुरुषस्य च दृश्यस्य चादर्शनं दर्शनशक्तिधर्म इत्येके।

{{{1}}}