पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
[ २ साधनफदे
वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि


गस्य कारणमुक्तम् । दर्शनमदर्शनस्य प्रतिद्वंद्वीत्यदर्शनं संयोग- निमित्तमुक्तम् । नात्र दर्शनं मोक्षकारणमदर्शनाभावादेव बन्धा- भावः स मोक्ष इति । दर्शनस्य भावे बन्धकारणस्यादर्शनस्य नाश इत्यतो दर्शनं ज्ञानं कैवल्यकारणमुक्तम् ।

  किंवेदमदर्शनं नाम, कि गुणानामधिकार आहोस्विदृशिरू-

पस्य स्वामिनो दर्शितविषयस्य प्रधानचित्तस्यानुत्पादः । स्वस्मि- दृश्ये विद्यमाने यो दर्शनाभावः।

  किमर्थवत्ता गुणानाम् । अथाविद्या स्वचित्तेन सह निरुद्धा

स्वचित्तस्योत्पत्तिबीजम् । किं स्थितिसंस्कारक्षये गतिसंस्का-

मुक्तम् । कथं पुनर्दर्शनकार्यावसान संयोगस्येत्यत आह-दर्शनमिति । ततः किमि- त्यत आह---अदर्शनमविद्या संयोगनिमित्तमित्युक्तम् । उक्तमर्थ स्पष्टपति-नात्रेति । ननु दर्शनमदर्शनं विरोधि निवर्तयतु बन्धस्य कुतो निवृत्तिरित्यत आह-दर्शनस्येति । बुद्ध्यो दिविविक्तस्याऽऽत्मनः स्वरूपावस्थानं मोक्ष उक्तो न तस्य साधनं दर्शनमपि त्वदर्श. ननिवृत्तेरित्यर्थः । __ असाधारणं संयोगहेतुमदर्शनविशेषं ग्रहीतुमदर्शनमात्र विकल्पयति-किं चेदमिति । पर्युदासं गृहीत्वाऽऽह-किं गुणानामधिकारः कार्यारम्भणसामध्यं ततो हि संयोगः संसारहेतुरुपजायते । प्रसज्यप्रतिषेधं गृहीत्वा द्वितीयं विकल्पमाह --- आहोस्विदिति । दर्शितो विषयः शब्दादिः सत्त्वपुरुषान्यतो चै येन चित्तेन तस्य तद्विषयस्यानुत्पादः । एतदेव स्फोरयाते-स्वस्मिन्दृश्ये शब्दादी सत्त्वपुरुपान्यतायां चेति । तावदेव प्रधान विचेष्टते न यावद्विविधं दर्शनमभिनिवर्तयति । निष्पादितोभयदर्शनं तु निवर्तत इति ।

 पर्युदास एव तृतीयं विकल्पमाह-किमर्थवत्ता गुणानाम् । सत्कार्यवादसिद्ध

हि भाविनावपि भोगापवर्गावव्यपदेश्यतया स्त इत्यर्थः । पर्युदास एवं चतुर्थ विक. ल्पमाह-अथाविद्या प्रतिसर्गकाले स्वचित्तेन सह निरुद्धा प्रधानसाम्यमागता वास- नारूपेण स्वचित्तोपत्तिबीजम् । तेन दर्शनादन्याऽविद्यावासनैवादर्शनमुक्ता । पर्युदास एवं पञ्चमं विकल्पमाह- स्थितिसंस्कारस्य प्रधानयर्तिनः स.म्यपरिणामपरम्परावा. हिनः क्षये गतिमहदादिविकारारम्भस्तद्धेतुः संस्कारः प्रधानस्य गलिसंस्क रस्त.

   १ ख. ज. 'झ्या हि वि° । २ क. 'ताख्यातिश्च ये° । ३ ख. वा।