पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० २३ ] पातञ्जलयोगसूत्राणि । नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम्-धर्मि- णामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोग इति ॥ २२ ॥ संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते- स्वस्वामिशक्त्याः स्वरूपोपल- ब्धिहेतुः संयोगः ॥ २३ ॥ पुरुषः स्वामी दृश्येन स्वेन दर्शनार्थं संयुक्तः । तस्मात्संयोगा - दृश्यस्योपलब्धिर्या स भोगः । या तु द्रष्टुः स्वरूपोपलब्धिः सोऽपवर्गः । दर्शनकार्यावसानः संयोग इति दर्शनं वियो- " अजामेकां लोहितशुक्लकृष्णां बहीः प्रजाः सृजमानां सरूपाः । अजो होको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः " [तै० आ० ६ | १० ] इति श्रुतिः । अस्या एव श्रुतेश्चानेन सूत्रेणार्थोऽनूदित इति । यतो दृश्यं नष्टमप्यनष्टं पुरु- षन्तरं प्रत्यस्ति अतो दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यातः । अत्रैवाऽऽग- मिनामनुमतिमाह-तथा चोक्तमिति । धर्मिणां गुणानामात्मभिरनादिसंयोगाद्धर्ममा- त्राणां महदादीनामप्यनादिः संयोग इति । एकैकस्य महदादेः संयोगोऽनादिरप्यनित्य एव यद्यपि तथाऽपि सर्वेषां महदादीनां नित्यः पुरुषान्तराणां साधारणत्वादत उक्तं धर्ममा- त्रांणामिति । मात्रग्रहणेन व्याप्तिं गमयति । अत एतद्भवति- यद्यप्येकस्य महतः संयोगोऽतीततामापन्नस्तथाऽपि महदन्तरस्य पुरुषान्तरेण संयोगो नातीत इति नित्य उक्तः ॥ २२॥ __ तदेवं तोदर्थ्ये संयोगकारण उक्ते प्रासङ्गिके प्रधाननित्यत्वे संयोगसामान्यनित्यत्वे हेतौ चोक्ते संयोगस्य यत्स्वरूपमसाधारणो विशेष इति” यावत्तदभिधित्सयेदं सूत्रं प्रववृते-स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतु: संयोगः । यतो दृश्यं तद्- र्थमतस्तज्जनितमुपकारं भजमानः पुरुपस्तस्य स्वामी भवति । भवति च तद्दृश्यमस्य स्वं स चानयोः संयोगः शक्तिमात्रेण व्यवस्थितस्तत्स्वरूपोपलब्धिहेतुस्तदेतद्भाष्यमव - द्योतयति-पुरुषः स्वामी योग्यतामात्रेण दृश्येन स्वेन योग्यतयैव दर्शनार्थं संयुक्तः । शेषं सुगमम् । स्यादंतत् । द्रष्टुः स्वरूपोपलब्धिरपवृज्यतेऽनेनेत्यपवर्ग उक्तो न च मोक्षः साधनवांस्तथा सत्ययं मोक्षवादेव च्यवेतेत्यत आह-दर्शन- कार्यावसानो बुद्धिविशेषेण सह पुरुपविशेषस्य संयोग इति दर्शनं वियोगकारण- १७. तादात्म्यसंयोगे का" । २ ख. "त्यत्वहे । ३ ज. वे च हेतावुके ।