पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९० . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [२ साधनपादे पेण प्रतिलब्धात्मकं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यत इति । स्वरूपहानोदस्य नाशः प्राप्तो न तु विन- श्यति ॥ २१॥ कस्मात्- कृतार्थ प्रति नष्टमप्यनष्टं तद- न्यसाधारणत्वात् ॥ २२ ॥ · कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि नाशं प्राप्तमप्यनष्टं तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुश- लान्पुरुषान्मेति न कृतार्थमिति तेषां दृशेः कर्मविषयतामापन्नं लभतं एवं पररूपेणाऽऽत्मरूपमिति । अतश्च दृग्दर्शनशक्त्यो- मनुभतस्वरूां भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगः सुखाद्याकारः शब्दाद्यनुभवोऽपवर्गः सत्त्वपुरुषान्यतानुभवस्तचैतदुभयमप्याजानतो जडाया बुद्रेः पुरुषच्छा- यापत्त्येति पुरुषस्थैव । तथा च पुरुषभोगापवर्मयोः कृतयोदश्यस्य भोगापवर्गार्थता समाप्पत इति भोगापवर्गार्थतायां कृतायामित्युक्तम् । अत्रान्तरे चोदयति-स्वरूपहानादिति । परिहरति-न तु विनश्यतीति ॥ २१ ॥ __नन्वत्यन्तानुपलभ्यं कथं न विनश्यतीत्याशयवान्मृच्छति-कस्मादिति । सूत्रेणोत्तर. माह-कृतार्थ प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतोऽर्थो यस्य पुरुषस्य स तथा । तं प्रति नष्टमप्यनष्टं तदृश्यं कुतः सर्वान्पुरुषान्कुशलानकुशलान्प्रति साधारणत्वात् । ध्याचष्टे-कृतार्थमेकमिति । नाशोऽदर्शनम् । अनष्टं तु दृश्यमन्यपुरुषसाधारणत्वात् । तस्मादृश्यात्परस्याऽऽत्मनश्चैतन्यं रूपंतेन तदिह श्रुतिस्मृतीतिहासपुराणप्रसिद्धमव्यक्तमनव- यवमेकमनाश्रयं व्यापि नित्यं विश्वकार्यशक्तिमत् । यद्यपि कुशन तं प्रति कृतकार्य न दृश्यते तथाऽप्यकुशलेन दृश्यमानं न नास्ति । न हि रूपमन्धेन न दृश्यत इति चक्षुष्म' साऽपि दृश्यमाननभावप्राप्तं भवति । न च प्रधानवदेक एव पुरुषस्तन्नानात्वस्य जन्ममरण- सुखदुःखे पभोगमुक्तिसंसारव्यवस्थया सिद्धेः । एकत्रश्रुतीनां च प्रमाणान्तरविरोधात्कथं- चिदेश कालविभागाभावेन भक्त्याऽप्युपपत्तेः । प्रकृयेकवपुरुपनानात्वयोश्च श्रुयैव साक्षात्प्रतिपादनात् । १५. छ. ना पा । र ग. प. . यत्पा' । ३ क. ख. णा नाम ।