पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १९]
८५
पातञ्जलयोगसूत्राणि।

८५ सू० १९] पातञ्जलयोगसूत्राणि।

      गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्'दा-
      दयः पश्चाविशेषाः, षष्ठश्चाविशेषोऽस्मितामात्र इति' । एते
      सत्तामात्रस्याऽऽत्मनो महतः षडविशेषपरिणामाः । यत्तत्परम-
      विशेपेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते सत्तामात्रे महत्यात्म-
      न्रसतन्रंयवस्थाय विवृद्धिकाष्ठामनुभवन्ति ।
      
      प्रतिसं सृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय  
      यत्तनिःसत्तास तं निःसदसन्निरसदव्यक्तमलिङ्ग प्रधानं तत्प्र- 
      
      

क्षणं स्पर्श आत्मना द्विलक्षणः शब्दः शब्दलक्षण एवेति । कस्य पुनरमी षडविशेषाः कार्यमित्यत आह - एते सत्तामात्रस्याऽऽत्मन इति । पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं तन्महत्तत्त्वम् । यावती काचित्पुरुषार्थक्रिया शब्दादिभोगलक्षणा सत्त्वपुरुषान्यताख्यातिलक्षणा वाऽस्ति सा सर्वा महति बुद्धौ समाप्यत इत्यर्थः । आत्मन इति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेरयमाद्यः परिणामो वास्तवो न तु तद्वि- वर्त इति यावत् । यत्तत्परं विप्रकृष्टकालमविशेषेभ्यस्तदपेक्षया संनिकृष्टकालेभ्यो लिङ्गमानं महत्तत्त्वं तस्मिन्नेते षडविशेषाः सत्तामात्रे महत्यात्मन्यवस्थाय सत्कार्थवादसिद्धेर्विवृद्धिकाष्टा- मनुभवन्ति प्रामुवन्ति । ये पुनरविशेषाणां विशेषपरिणामास्तेषां च धर्मलक्षणावस्थाः परि- णामा इति । सेयमेषां विवृद्धिकाष्ठा परिणामकाष्टेति ।

तदेवमुत्पत्तिक्रममभिधाय प्रलयक्रममाह-प्रतिसंसृज्यमानाः प्रलंयमानाः स्वा. त्मनि लीनविशेषा अविशेषास्तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तमन्यत्र लयं न गच्छतीत्यलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्तासत्तं सत्ता पुरुषार्थक्रियाक्षमावम् , असत्ता तुच्छता निष्क्रान्तं सत्ताया असत्तायाश्च यत्तत्तथोक्तम् । एतदुक्तं भवति-सत्त्वरजस्तमसां साम्यावस्था न कचित्पुरुषार्थ उपयुज्यत इति न सती नापि गगनकमलिनीव तुच्छस्वभावा तेन नासत्यपीति । स्यादेतत् । अव्यक्तावस्थायामप्यस्ति महदादि तदात्मना, न हि सतो विनाशो विनाशे वा न पुनरुत्पादो न ह्यसत उत्पाद इति महदादिसद्भावात्पुरुषार्थ- क्रिया प्रवर्तेत तत्कथं निःसत्त्वमव्यक्तमित्यत आह-निःसदसदिति । निष्क्रान्तं कारणं सतः कार्यात् । यद्यपि कारणावस्थायां सदेव शक्त्यात्मना कार्य तथाऽपि स्वोचितामर्थक्रियामकुर्वदसदित्युक्तम् । न चैतत्कारणं शशविषाणायमानकार्यमित्याह- निरसदिति । निष्क्रान्तमसतस्तुच्छरूपात्कार्यात्तथा सति हि व्योमारविन्दमिवास्मान