{{bold|
}
लस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थाव-
सायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा
बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य
भोक्तेति ॥ १८ ॥
दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते-
विशेषाविशेषलिङ्गमात्रालि-
ङ्गानि गुणपर्वाणि ॥ १९॥
तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसग-
न्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जि-
ह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रि-
याणि, एकादशं मनः सर्वार्थम् , इत्येतान्यस्मितालक्षणस्यावि-
शेषस्य विशेषाः । गुणानामेष षोडशको विशेषपरिणामः ।
षडविशेषाः । तद्यथा-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं
च वक्ष्यते । परमार्थतस्तु-बुद्धेरेव परुषार्थापरिसमाप्तिरिति । एतेन भोगापवर्गयोः
पुरुषसंबन्धित्वकथनमार्गेण ग्रहणादयोऽपि पुरुषसंबन्धिनो वेदितव्याः । तत्र स्वरूपमात्रेणार्थज्ञानं ग्रहणं, तत्र स्मृतिर्धारणं, तद्वतानां विशेषाणामूहनमूहः, समारोपितानां च युक्त्याs-
पनयोऽपोहः । ताभ्यामेवोहापोहाभ्यां तदवधारणं तत्वज्ञानम् । तत्त्वावधारणपूर्व हानोपादानज्ञानमभिनिवेशः ॥ १८॥
दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते-विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । येषामविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा
विकारा एव न तु तत्वान्तरप्रकृतयस्तेषां तानाह-तत्राऽऽकाशेति । उत्पादक्रमानुरूप
एवोपन्यासक्रमः । अस्मितालक्षणस्याविशेषस्य सत्त्वप्रधानस्य बुद्धीन्द्रियाणि विशेषाः ।
राजसस्य कर्मेन्द्रियाणि । मनस्तुभयात्मकमुभयप्रधानस्येति मन्तव्यम् । अत्र च पञ्च
तन्मात्राणि बुद्धिकारणकान्यविशेषत्वादस्मितावदिति । विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु
चास्मितायां चाविशिष्टम् । संकलय्य विशेषान्परिगणयति-गुणानामेष इति। ,
अविशेषानपि गणयति-षडिति । संकलय्योदाहरति-तद्यथेति । विशिष्टं
द्वापरं परेणेति गन्ध आत्मना पञ्चलक्षणो रस आत्मना चतुर्लक्षणो रूपमात्मना त्रिल-
१ क. ग. प. उ. च. °नां तु गु । २ क. ख. ग. प. अ. उ. पस्थानि
झ. 'नम४ज: विष्टधं।
। ३ ज,