पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh=सू०१८]|left|centerपातञ्जलयोगसूत्राणि ।|right=८३}}


प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति । एतदृश्यमित्युच्यते ।

' तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति । तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति भोगापवर्गार्थं हि तदृश्यं पुरुषयेति । तत्रेष्टानिष्टगुणस्वरूंपावधारणमविभागापन्नं भोगो भोक्तुः स्वरूपावधारणमपवर्ग इति । द्वयोरतिरिक्तमन्यदर्शनं नास्ति । तथा चोक्तम्-अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तक्रियासाक्षिण्युपनीयमानान्सर्वभावानुपपन्नाननुपश्यन्नदर्शनम- न्यच्छङ्कन्त इति ।

      तावेतौ भोगापवर्गों बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे

व्यपदिश्यते इति । यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्ध- मोक्षौ वृृुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फ-

गुणानां तत्किमुच्यते पुरुषार्थप्रयुक्ता इत्यत आह-प्रत्ययमन्तरेणेति । एकतमस्य सत्त्वस्य रजसस्तमसो वा प्रधानस्य स्वकार्ये प्रवृत्तस्य वृत्तिमितरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः । यथा च वक्ष्यति-" निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् " [यो०सू० ४।३] इति । एते गुणाः प्रधानशब्दवाच्या भवन्तीति संबन्धः । प्रधीयत आधीयते विश्वं कार्यभेभिरिति व्युत्पत्त्यैतदृश्यमुच्यते ।

तदेवं गुणानां शीलमभिधाय तस्य कार्यमाह-तदेतदिति । सत्कार्यवादसिद्धौ यद्य- दात्मकं तत्तेन रूपेण परिणमत इति भूतेन्द्रियात्मकत्वं दीपयति-भूतभावेनेत्यादिना । भोगापवर्गार्थमितिसूत्रावयवमवतारयति-तत्तु नाप्रयोजनमपि तु प्रयोजनमुररीकृत्य प्रवर्तते । भोग विवृणोति-तत्रेति । सुखदुःखे हि त्रिगुणाया बुद्धेः स्वरूपे तस्यास्तथा- त्वेन परिणामात्तथाऽपि गुणगततयाऽवधारणे न भोग इत्यत आह–अविभागापन्नमिति । एतच्चासकृद्विवेचितम् । अपवर्ग विवृणोति-भोक्तुरिति । अपवृज्यतेऽनेनेत्यपवर्गः । प्रयोजनान्तरस्याभावमाह-द्वयोरिति । तथा चोक्तं पञ्चशिखेन,-अयं तु खल्विति ।

      ननु वस्तुतो भोगापवर्गों बुद्धिकृतौ बुद्धिवर्तिनी च कथं तदकारणे तदनधिकरणे

च पुरुषे व्यपदिश्येते इत्यत आह-तावेताविति । भोक्तृत्वं च पुरुषस्योपपादितमग्रे,