पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
२ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि


वियोगधर्माणइतरेतरोपाश्रयेणोपार्जितमूर्तयःपरस्पराङ्गाङ्गित्वेऽ. प्यसंभिन्नशक्तिपविभागास्तुल्यजातीयातुल्यजातीयशक्तिभेदा- नुपातिनःप्रधानवेलायामुपदर्शितसंनिधानागुणत्वेऽ च व्यापारमात्रेणप्रधानान्तर्णीतानुमितास्तिताःपुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याःसंनिधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः'

उदीयेत न घोरो मृढो बा सत्त्वप्राधान्य इअत्यत आहपरस्पराङ्गाङ्गिन्त्वेऽ-

प्यसंभिन्नशक्तिप्रविभागाः । भवतु शान्ते प्रत्यये जनयितव्ये रजस्तमसोरङ्गभा.
वस्तथाऽपि नैपां शक्तयः संकीर्यन्ते कार्यासंकरोन्नेयो हि शक्तीनामसंकरः । असं-
कीर्णेन च समुदाचरता रूपेण शान्तघोरमूढरूपाणि कार्याणि दृश्यन्त इति सिद्ध
शक्तीनामसभेद इति । स्यादेतत् । असंभेदश्चेच्छक्तीनां न संभयकारित्वं गुणानाम् ।
न जातु भिन्नशक्तीनां संभूयकारिवं दृष्टम् । न हि तन्तुमृत्पिण्डवीरणादीनि घटादी-
संभूय कुर्वत इत्यत आह - तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः ।
यद्यपि तुल्यजातीय उपादानशक्तिर्नान्यत्र सहकारिशक्तिस्त्वतुल्य जातीये । पटे तु जन-
यितव्ये न चीरणानामस्ति सहकारिशक्तिरपीति न तैस्तन्तूनां संभृयका-
रितेति भावः । तुल्यजातीयातुल्य जातीयेषु शक्येषु ये सक्तिभेदास्ताननु पतितुं शीलं
येषां ते तथोक्ताः । प्रधानवेलायामिति । दिव्यशरीरे जनयितव्ये सत्त्वगुणः प्रधा-
नम् । अङ्गे रजस्तमसी । एवं मनुष्यशरीरे जनयितव्ये रजः प्रधानमङ्गे सत्त्वतमसी ।
एवं तिर्यक्शरीरे जनयितव्ये तमः प्रधानमङ्गे सत्वरजसी । तेनेते गुणाः प्रधानत्व.
वेलायामुपदर्शितसंनिधानाः कार्योपजननं प्रत्युद्धृतवृत्तय इत्यर्थः । प्रधानशब्दश्व
भावप्रधानः । यथा “दूधेकयोद्विवचनैकवचने" [पा० सू० ११४.२२] इत्यत्र द्वित्वैकाययो-
रिति । अन्यथा द्वयेकेष्धिति स्यात्। ननु तदा प्रधानमुद्धततया शक्यमस्तीति वक्तुमनुद्भूतानां
तु तदङ्गानां सद्भावे किं प्रमाणमित्यत आह--गुणत्वेऽपि चेति । यद्यपि नोद्धता-
स्तथाऽपि गुणानामवित्रकित्वात्संभयकारित्वाच्च व्यापारमात्रेण सहकारितया प्रधानेऽन्ततिं
सदनुमितमस्तित्वं येषां ते तथोक्ताः । ननु सन्तु गुणाः संभूयकारिणः समर्थाः कस्मा.
त्पुनः कुर्वन्ति नहि समर्थमित्येव कार्य जनयति । मा भृदस्य कार्योपजननं प्रति
विराम इत्यत आह- पुरुषार्थकर्तव्यतयेति । ततो निवर्तितनिखिलपुरुषार्थानां
गुगानामुपरमः कार्यानारम्भणमित्युक्तं भवति । ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थन
प्रयुज्यत इत्यत आह–संनिधिमात्रेति । ननु धर्माधर्मलक्षणमेव निमित्तं प्रयोजक
१ ग. प. उ. विभाग । २ ज. सिद्धः। ३ क. ख. 'त् । तदसं' ४ झ. स्माता।
५ख. परि । ज. प्रत्यवि ।