पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू०१८]
RESEARCH INSTITUTE MADRAS.4..
पातञ्जलयोगसूत्राणि ।


"

पलब्धिसामर्थ्यादिति । अत्रापि तापकस्य रजसः सत्त्यमेव तप्यम् । कस्मात् , तपिक्रियायाः कर्मस्थत्वात् , सत्त्वे कर्मणि तपि. क्रिया नापरिणामिनि निष्क्रिय क्षेत्रज्ञे, दर्शितविषयत्वात् । सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति ॥ १७ ।।

  दृश्यस्वरूपमुच्यते- 
        प्रकाशक्रियास्थितिशीलं भूनन्द्रि-
        यात्मकं भोगापवर्गाथं दृश्यम् ॥ १८॥
    प्रकाशशीलं सत्त्वम् । क्रियाशील रजः। स्थितिशीलं तम
   इति । एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोग-

स्यादेतत् । गुणसंयोगस्तापहेतुारेत्युच्यमाने गुणानां तापकत्वमभ्युपेतम् | न च तपि- क्रियाया अस्त्यादेवि कर्तृस्थो भावो येन तप्यमन्यन्नापेक्षेत । न चास्यास्तप्यतया पुरुषः कर्म तस्यापरिणामितया क्रियाजनितफलशालित्यायोगात् । तस्मात्तपेस्तप्यव्याप्तस्य तन्नि- वृत्तौ निवृत्तिमवगच्छामो ज्वलनविरहेणेव धूमाभावमित्यत आह -अत्रापि तापकस्येति। गुणानामेव तप्यतापकभावस्तत्र मृदुत्वात्पादतलवत्सत्वं तप्यं रजस्तु तीव्रतया तापकम् । पृच्छति-कस्मात्सत्त्वमेव तप्यं नतु पुरुषः । उत्तरम् --तपिक्रियाया इति । तरिक मिदानी पुरुषो न तप्यते । तथा चाचेतनस्यास्तु सत्त्वस्य तापः किं नश्छिन्नमित्यत आह- दर्शितविषयत्वात्सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्यनुतप्यत इति । दर्शितविषयत्वमनुतापहेतुस्तच्च प्राग्व्याख्यातम् ॥ १७ ॥

      प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मक भोगापवर्मार्थ दृश्यम् । व्याचष्टे-~-~-

प्रकाशेति । सत्त्वस्य हि भागः प्रकाशस्तामसेन भागेन दैन्येन वा राजसेन वा दुःखेना. नुरज्यते । एवं राजसादिष्वपि द्रष्टव्यम् । तदिदमुक्तम् --~-परस्परोपरक्तपविभागा इति । पुरुषेण सह संयोगवियोगधर्माणः । यथाऽऽन्नायते--

         " अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
            अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः "
                                     [ ते० आ० ६ । १० ] इति ॥
     इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्यादिरूपा यैस्ते तथोक्ताः । स्यादे.

तत्सत्त्वेन शान्तप्रत्यये जनयितव्ये रजस्तमसोरपि सरत्राङ्गत्वेन तत्र हेतुभावा. दस्ति सामर्थ्यमिति यदाऽपि च रजस्तमसोरङ्गित्वं तदाऽपि शान्त एव प्रत्ययफलकम्:Center=१ क. ख. ग. घ. इ. ८. पोऽनु । २ म. व अ. से दृश्यते ॥१५॥ ३ ज. याप्यस्य ।