पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'८ वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [ २ साधनपाहे-


स्वतन्त्रमपि परार्थत्वात्परतन्त्रम् । तयोदृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुर्दुःखस्य कारणमित्यर्थः । तथा चोक्तम्---तत्संयोगहेतुविवर्जनात्स्या. दयमात्यन्तिको दुःखप्रतीकारः । कस्मात , दुःखहेतोः परिहार्यस्य प्रतीकारदर्शनात् । तद्यथा--पादतलस्य भेद्यता, कण्टकस्य भेत्तृत्वं, परिहारः कण्टकस्य पा(प)दाऽनधिष्ठानं पादत्राणव्यवहितेन वाऽधिष्ठानम्, एतञ्त्रयं यो वेद लोके स तत्र प्रतीकारमारंभमाणो भेदजं दुःखं नाऽऽप्नोति । कस्मात् , त्रित्वो- बुद्धिसत्त्वं स्याद्भवेत्स्वयंप्रकाशं किंतु स्वं चैतन्यादन्यजडरूपं तेन प्रतिलब्धात्मकं तस्मात्तदनुभवविषयः । ननु यस्य हि यत्र किंचिदायतते तत्तदधीनम् । न च बुद्धिसत्त्वस्य पुरुषमुदासीनं प्रति किंचिदोयितत इति कथं तत्तन्त्रम् । तथाच न तस्य कर्मेत्यत आह- स्वतन्त्रमपि परार्थत्वात्पुरुषार्थत्वात्परतन्त्रं पुरुषतन्त्रम् । __ नन्वयं दृग्दर्शनशक्त्योः संबन्धः स्वाभाविको वा स्यान्नैमित्तिको वा । स्वाभाविकत्वे संबन्धिनोर्नित्यवादशक्योच्छेदः संबन्धस्तथा च संसारनित्यत्वम् । नैमित्तिकत्वे तु क्लेशकर्मतद्वासनानामन्तःकरणवृत्तितया सत्यन्तःकरणे भावादन्तःकरणस्य च तन्निमित्तत्वे परस्पराश्रयप्रसङ्गादनादित्वस्य च सर्गीृादावसंभवादनुत्पाद एव संसारस्य स्यात् । यथोक्तम् - " पुमानकर्ता येषां तु तेषामपि गुणैः क्रिया । कथमादौ भवेत्तत्र कर्म तावन्न विद्यते ।। मिथ्याज्ञानं न तत्रास्ति रागद्वेषादयोऽपि वा। मनोवृत्तिर्हि सर्वेषां न चात्पन्नं मनस्तदा" इति शङ्कामपनयति--तयोदृग्दर्शनशक्त्योरनादिरर्थकृतः संयोगो हेयहेतुः । सत्यम् । न स्वाभाविकः संबन्धो नैमित्तिकस्तु । न चैवमादिमाननादिनिमित्तप्रभवतया तस्याप्यनादित्वात् । क्लेशकर्मतद्वासनासंतानश्चायमनादिः प्रतिसर्गावस्थायां च सहान्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनस्तादृगेव प्रादुर्भवति वर्षापाय इवोद्विज्जभेदो मृद्भावमुपगतोऽपि पुनर्वर्षासु पूर्वरूप इत्यसकृदावेदितम् । प्राग्भावितया संयोगस्याविद्या कारणं स्थितिहेतुतया पुरुषार्थः कारणं तद्वशेन तस्य स्थितेस्तदिदमुक्तमर्थकृत इति । तथाचोक्तं पञ्चशिखेन तत्संयोगो बुद्धिसंयोगः स एव हेतुर्दुः- खस्य, तस्य विवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारः । अर्थात्तदपरिवर्जने दुःखमित्युक्तं भवति । तत्रैवात्यन्तप्रसिद्धं निदर्शनमाह—तद्यथेति । पादत्राणमुपानत् । १ ज. स्य' त्तर्हि भ्यतु स्वयं । २ ज. तु थे' ! ३ क. दापत' । ४ क. दापत' । ५व.प्रभवति।