पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६ .
[२ साधनपादे--
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

८६ . वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि- [२ साधनपादे-- तियन्ति । एष तेषां लिङ्गमावः परिणामो निःसत्तासत्तं चालिङ्गपरिणाम इति । . अलिङ्गावस्थायां न पुरुषार्थो हेतुर्नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्याऽऽख्यायते । त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्याऽऽख्यायते । गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवा- तीतानागतव्ययागमवतीभिर्गुणानवयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात् । यतोऽस्य म्रियन्ते गाव इति, गवामेव मरणात्तस्य दरिद्राणं न स्वरू- पहानादिति समः समाधिः। लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः । तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते कार्यमुत्पद्यतेति भावः । प्रतिसर्गमुक्तमुपसंहरति-एप तेषामिति । एप इत्यनन्तरो- तात्पूर्वस्य परामर्शः । लिङ्गमात्राद्यवस्थाः पुरुषार्थकृतत्वादनित्या अलिङ्गावस्था तु पुरुषार्थेनाकृतत्वानित्येत्यत्र हेतुमाह----अलिङ्गावस्थायामिति । कस्मात्पुनर्न पुरुषार्थो हेतुरित्यत आह–नालिङ्गावस्थायामिति । भवतिना विषयेण विषयिज्ञानमुपलक्षयति । एतदुक्तं भवति-एवं हि पुरुषार्थता कारणमलिङ्गावस्थायां ज्ञायेत । यद्यलिङ्गावस्था शब्दाद्युपभोगं वा सत्त्वपुरुषान्यताख्यातिं वा पुरुषार्थं निवर्तयेत्तन्निवर्तने हि न साम्यावस्था स्यात् । तस्मात्पुरुषार्थकारणत्वमस्यां न ज्ञायत इति नास्याः पुरुषार्थता हेतुः । उपसंहरति-नासाविति । इतिस्तस्मादर्थे । अनित्यामवस्थामाह--त्रयाणां लिङ्ग- मात्राविशेषविशेषाणामिति । पर्वस्वरूपं दर्शयित्वा गुणस्वरूपमाह-गुणास्त्विति । निदर्शनमाह-यथा देवदत्त इति । यत्रात्यन्तभिन्नानां गवामुपचयापचयौ देवदत्तो. पचयापचयहेतू तत्र कैव कथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनामुपजनापाययोरित्यर्थः । ननु सर्गक्रमः किमनियतो नेत्याह-लिङ्गमात्रमिति । न खलु न्यग्रोधधाना

अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डल.

left
right